SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ १८ वादार्थसंग्रहः [२ भागः ध्यते । धातुना चालौकिकभिन्नं जन्यं प्रत्यक्षं, तत्रैव द्वित्वावच्छिन्नद्वितीयार्थान्वितनबर्थस्यान्वयः । आख्यातस्य तादृशोभयाभावान्वितं निरूपकत्वमर्थः । तथा चौलौकिकभिन्नजन्यप्रत्यक्षसामान्यवृत्त्याकाशविषयित्वघटवृत्तित्वोभयाभावनिरूपको घट इत्यन्वयबोधः । नं चाकाशं न पश्यत्यभाव इत्यादौ समवायसंबन्धेनाभाववृत्तित्वाप्रसिद्धथा नोक्तक्रमेण समञ्जसमिति वाच्यम् , तत्र हि धातोनिरुक्तलौकिकप्रत्यक्षप्रतियोगित्वं समवायश्चार्थः । द्वितीयायाश्च विषयिप्रतियोगिकत्वमभावानुयोगित्वं त्रित्वं चार्थः । एकदेशे च विषयित्वे प्रकृत्यर्थस्याकाशादेर्निरूपकत्वेनान्वयः । तथा च समवायसंबन्धसामान्ये आकाशविषयिप्रतियोगिकत्वनिरुक्तलौकिकप्रत्यक्षप्रतियोगिकत्वाभावानुयोगिकत्वैतत्रित्वावच्छिन्नस्य योऽभावस्तन्निरूपकोऽभाव इत्यन्वयबोधः । केचित्तु तत्र धातोर्निरुक्तलौकिकप्रत्यक्षसमवायोऽर्थः । द्वितीयायाश्च विषयिप्रतियोगिकत्वमभावानुयोगिकत्वं चार्थः । विषयित्वे च एकदेशे प्रकृत्यर्थस्याकाशस्य निरूपकतयाऽन्वयः । तथा च निरुक्तंलौकिकप्रत्यक्षसमवाये आकाशविषयिप्रतियोगिकत्वाभावानुयोगिकत्वोभयत्वावच्छिनस्य योऽभावस्तन्निरूपकोऽभाव इत्यन्वयबोधः। अनयैव दिशा अप्रसिद्धिस्थले बोधो द्रष्टव्य इत्यपि वदन्ति । हिमवतो गङ्गा प्रभवति इत्यादौ न पञ्चम्या हेतुत्वं धातुना च उत्पत्तिबर्बोध्यते । तथा सति 'जनिकर्तुः प्रकृतिः' इत्यत एव उपपत्तौ 'भुवः प्रभवः' इति सूत्रप्रणयनवैयर्थ्यात् । किं तु प्रकर्षेण भवनं प्रभवः प्रकाश: आद्यबहिःसंयोग इति यावत् । स एव धात्वर्थः । बहिःपदार्थः प्रकृते भूखण्डमेव । पञ्चम्यर्थश्च संयोगध्वंसाव्यवहितोत्तरवृत्तित्वमाख्यातार्थ आश्रयता । तथा च हिमालयसंयोगध्वंसाव्यवहितोत्तरक्षणवाद्यपृथिवीसंयोगाश्रयतावती ग वन्वयधीः । वैकुण्ठात् काशीतो वा गङ्गा प्रभवतीत्यप्रयोगात् अव्यवहितति आद्यति च । वैकुण्ठसंयोगध्वंसाव्यवहितोत्तरक्षणे भूसंबन्धस्य काशीसंयोगध्वंसाव्यवहितोत्तरक्षणे चाद्यस्य तस्याभावात् । वल्मीकापात्प्रभवति धनुःखण्डमाखण्डलस्ये १ च लौकिकप्रत्यक्षसामान्येति पाठः । २ एतदादि अनयैवेत्यतः प्राक्तनो ग्रन्थः पुण्यपत्तनपुस्तके नास्ति। "
SR No.034265
Book TitleVadarth Sangraha Part 02 Shatkarak Vivechan Karak Vadarth Samas Vadarth Vakar Vadarth
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1914
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy