SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ६ ग्रन्थः ] पट्कारकविवेचनम् । एवं कूपादन्धं वारयतीत्यादौ पञ्चम्याः पतनं, द्वितीयाया धात्वर्थंकदेशप्रतिबन्धान्वितं वृत्तित्वं, धातोश्च प्रतिबन्धानुकूलव्यापारोऽर्थः । ( आख्यातस्य कृतिः) तथा चान्धवृत्तिकूपपतनप्रतिबन्धानुकूलव्यापारानुकूलकृतिमानिति वाक्यार्थस्तु न युक्तः, यत्र कूपे कस्यापि पतनमप्रसिद्धं तत्रासंभवात् । अत एव द्वितीयायाः पतनं पञ्चम्या धात्वर्थान्वयिवृत्तित्वं धातोश्चाभावानुकूलव्यापारोऽर्थः । तथा च कूपवृत्त्यन्धपतनाभावानुकूलव्यापारविषयकयत्नवानित्यर्थोऽपि न युक्तः, यदन्धस्य पतनमप्रसिद्धं तत्रासंभवात् । किं तु धातोरभावानुकूलव्यापारः, पञ्चम्या वृत्तित्वं, द्वितीयायाः प्रतियोगित्वमनुयोगित्वं वा धात्वर्थतावच्छेदकीभूताभावान्वितमर्थः । अभावश्च कूपादिसमभिव्याहारादिवशात्पतनादिना संवन्धेन बोध्यः । एवं च पतनादिसंबन्धेन कूपवृत्त्यन्धप्रतियोगिकाभावानुकूलव्यापारविपयकयत्नवानित्यन्वयधीः । एवमेतस्मात्सविषान्नादमुं मित्रं वारयतीत्यादौ यत्सविषान्नस्य यन्मित्रस्य भोजनमप्रसिद्धं तत्रापि भोजनादिसंबन्धेन सविपान्नवृत्तिमित्रप्रतियोगिकाभावानुकूलव्यापारविपयकयत्नवानित्यन्वयधीः । कूपादन्धमित्यत्र सविषान्नादमुं मित्रमित्यत्र च यथायथं धातोः पतनं भोजनमभावानुकूलव्यापारश्वार्थः । पञ्चम्याश्च यथायथं द्वितीयार्थकर्तृत्वान्वितद्वित्वविशिष्टं वृत्तित्वं कर्मत्वं चार्थः । द्वितीययोः कर्तृत्वमर्थः । यात्वर्थतावच्छेदकीभूते चाभावे धात्वर्थस्य पतनादेरधिकरणत्वेन द्वित्वावच्छिन्नस्य पञ्चम्यर्थवृत्तित्वादिद्वितीयार्थकर्तृकत्वोभयस्य च प्रतियोगित्वेनान्वयो व्युत्पत्तिवैचिच्यात् । एवं च पतनसामान्ये कूपवृत्तित्वान्धकर्तृकत्वोभयाभावानुकूलव्यापारविषयकयत्नवानित्याद्यस्य, भोजनसामान्ये सविषान्नकर्मकत्वमित्रकर्तृकत्वोभयाभावानुकूलव्यापारविषयकयत्नवानिति द्वितीयस्य बोधः । __ एवमेवाकाशं न पश्यति घट इत्यादावाकाशविषयकदर्शनस्य घटवृत्तिदर्शनस्य चाप्रसिद्धयां वक्ष्यमाणरीत्याऽन्वयबोधो द्रष्टव्य इति । तत्र द्वितीयया विषयित्वरूपं कर्मत्वं लक्षणया च घटवृत्तित्वं द्वित्वं च बो १ धात्वर्थतावच्छेदकीभूतप्रति इति पाठः । २ धात्वर्थतावच्छेदकीभूताभावान्वयिवृत्तित्वमिति पाठः। ३ रात्पतनादिसंबन्धेनेति पाठः । ४ सहितमिति पाठः। ५ कर्तृकदर्शनस्येति पाठः । ६ धावपीति पाठः ।
SR No.034265
Book TitleVadarth Sangraha Part 02 Shatkarak Vivechan Karak Vadarth Samas Vadarth Vakar Vadarth
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1914
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy