________________
वादाथसंग्रहः
[२ भागः च्छिन्नक्रियाया एव पतधात्वर्थतया वृक्षपर्णविभागे पर्णाधःसंयोगस्याजनकत्वादसंभवापत्तेः । तदुपलक्षितजन्यत्वं चोभयत्र समानमिति । ___ एवं च प्रामाद्गच्छतीत्यादौ गमनादिजन्यविभागाश्रयत्वेन प्रामादेरपादानत्वम् । 'ध्रुवमपायेऽपादानम्' इति पाणिनिसूत्रम् । अपाये विभागे ध्रुवं निश्चलं तद्विभागजनकक्रियाशून्यमिति तदर्थः । धावतोऽश्वात्पततीत्यादौ तु पञ्चमी नैतत्सूत्रेणानुशिष्टा तदर्थ वक्तव्यान्तरं विधेयम् । ___ वस्तुतस्तु विभागजनकत्वं यत्र क्रियायामन्वीयते तत्क्रियाशून्यत्वमर्थः । तेन धावतोऽश्वात्पततीत्यादौ न काप्यनुपपत्तिः। तत्र पतनक्रियायामेव पञ्चम्यर्थविभागजनकत्वान्वयेनाश्ववृत्तिधावनक्रियायां तदनन्वयादिति । __विभागे ध्रुवमवधिभूतमपादानमित्यर्थः । अवधित्वं च स्वरूपसंबन्धविशेष: प्रतीतिबलात् । तेन धावतोऽश्वात्पततीत्यादौ सक्रियाश्वादेरपादानत्वं नानुपपन्नम् । अत एव वृक्षपर्णयोः क्रियया पत्रस्य विभागेऽपि वृक्षस्यावधित्वोपपत्तिरिति तु कश्चित् ।
वृक्षाद्विभजत इत्यादौ तु विभागावधित्वमपादानत्वमवधित्वमवधिमत्त्वं वा स्वरूपासंबन्धरूपं पञ्चम्यर्थः । एवं च वृक्षाद्यवधिकविभागाश्रयः पर्णमित्यन्वयबोधः । न चैवं स्वस्माद्विभजत इत्यपि स्यादिति वाच्यम् । स्वप्रतियोगिकत्वविशिष्टसंयोगस्येव स्वावधिकत्वविशिष्टविभागाश्रयत्वस्य स्वस्मिन्नभावात् । इत्थं चापादानपदं पञ्चमी च नानार्थमेवेति । __ न चैवं परकीयस्पन्दजन्यविभागाश्रयत्वेन वृक्षात्पर्ण स्पन्दत इत्यपि स्यादिति वाच्यम् । परकीयक्रियेत्यत्र क्रियापदेन सकर्मकधात्वर्थस्य विवक्षितत्वात् । __ व्याघ्राद्विभेति शत्रोः परित्रायते इत्यादौ पञ्चमी नापादाने किं तु 'भीत्रार्थानां भयहेतुः' इति सूत्रेणानुशिष्टायाः पञ्चम्या हेतुत्वमर्थः । धातोयथायथं भयं भयाभावश्वार्थः । पञ्चम्यर्थश्च हेतुत्वं धात्वर्थे भये धात्वर्थतावच्छेदके च भयेऽन्वेति । आख्यातार्थश्चाश्रयत्वं । परित्राणानुकूलव्यापारश्च । इत्थं च हेतुपञ्चम्यैवोपपत्तौ पृथक्सूत्रप्रणयनं तस्यैव प्रपञ्चार्थमिति बोध्यम् । तथा च व्यावहेतुकभयाश्रयः शत्रुहेतुकभयाभावानुकूलव्यापारवानिति चान्वयधीः ।
१ संयोगावच्छिन्नक्रियात्वेनाजनकत्वादिति पाठः । २ प्रामादागच्छतीति पाठः । ३ बलात्कस्यापीति पाठः ।