________________
६ ग्रन्थः ]
षट्कारकविवेचनम् ।
१५
त्वेन संप्रदाने चतुर्यैवोपपत्तेः नमः स्वस्तीत्यादिसूत्रान्तरं व्यर्थमिति वाच्यम्, यत्किंचितक्रियाकर्मजन्यफलभागित्वेनोद्देश्यत्वस्यैव गौणसंप्रदानत्वेन नमःपदादेः क्रियावाचित्वाभावेन पृथक्सूत्रप्रणयनात् ।
नारदाय रोचते कलहः, वैश्याय शतं धारयतीत्यादौ तु नारदादेर्न संप्रदानता किंतु 'रुच्यर्थानां प्रीयमाणः ' 'धारेरुत्तमर्ण:' इति सूत्रद्वयेन संबन्धमात्रे चतुर्थी विधीयते । तत्र चतुर्थ्या संबन्धो धातुना रुचिरा - ख्यातेन विषयताभिधीयते । नारदस्य रुचिविषयः कलहः इत्याद्यस्य; पुनदनमङ्गीकृत्य द्रव्यग्रहणं धारणं, वैश्यः शतकर्मकतादृशग्रहणाश्रय इति चान्त्यस्यान्वयधीः ।
संप्रदानस्य कारकत्वं धात्वर्थतावच्छेदकफलनिष्पादकत्वेन ददस्वेत्यनुमतिप्रकाशनेन कर्तुरिच्छामुत्पाद्य दाननिष्पादनेनं वेति ।
त्यागजन्यस्वत्वजनकस्वीकारवत्त्वं संप्रदानत्वम् । श्राद्धादौ पित्रादेर्न स्वीकारः । रुद्राय गां ददातीत्यादावपि संप्रदानत्वं गौणमुद्देश्यत्वरूपमित्यण्याहुः ॥
अपादानत्वविवेचनम् ।
परकीयक्रियाजन्यविभागाश्रयत्वमपादानत्वम् ।
वृक्षात्पर्ण पततीत्यादौ पतनाश्रयस्य पत्रादेरपादानत्ववारणाय परकीयेति । अत्र पञ्चम्या विभागजनकत्वमन्योन्याभावप्रतियोगितावच्छेदकत्वं चाभिधीयते । विभागे अन्योन्याभावे च वृक्षोऽधिकरणत्वेनान्वीयते । एवं च वृक्षवृत्तिविभागजनक वृक्षवृत्त्यन्योन्याभावप्रतियोगितावच्छेदकपतनाश्रयः पत्रमित्यन्वयधीः ।
1
अत्र च धात्वर्थतानवच्छेदकत्वेन विभागो विशेष्यः । तेन वृक्षं त्यजति ar इत्यादी वृक्षस्य नापादानत्वम् ।
यत्तु विभागावच्छिन्नक्रियायाः त्यजधात्वर्थतया विभागे विशिष्टक्रियाया जनकत्वाभावान्न तत्र तथेति । तदसत् । तथा सत्यधः संयोगाव
१ वछेदकफलयत्ननि; वछेदकत्वेन फलनिष्पादकत्वेन यत्ननिं इति पाठः । २ निष्पादनेनैवेति पाठः । ३ विभागे विभागावच्छिन्नक्रियाजन्यत्वाभावादिति
पाठ: ।