SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ वादार्थसंग्रहः . [२ भागः ल्पनात् । नचैवमजा नयति ग्राममित्यादौ ग्रामस्य संप्रदानत्वापत्तिः । तत्र हि संयोगावच्छिन्नगमनानुकूलव्यापारः प्रेरणादिर्धात्वर्थः । द्वितीयाद्वयस्य वृत्तित्वमर्थः । धात्वर्थतावच्छेदकगमनैकदेशे संयोगे ग्रामपदोत्तरद्वितीयार्थस्य, गमने चाजापदोत्तरद्वितीयार्थस्य वृत्तित्वस्यान्वयः। एवं च ग्रामवृत्तिसंयोगजनकाजावृत्तिगमनावच्छिन्नव्यापारानुकूलकृतिमानित्यन्वयधीः । तथा चाजाजन्यफलभागित्वेनोद्देश्यत्वेन ग्रामस्याप्रत्ययात् न संप्रदानता । यत्र तु तथोद्देश्यत्वं विवक्ष्यते तदा प्रामायाजां नयतीति प्रयोगो भवत्येवेत्याहुः। वस्तुतस्तु त्यक्तुस्त्यज्यमानद्रव्यस्वत्वभागित्वेनोद्देश्यत्वं संप्रदानत्वम् । त्यागविशेषश्चात्र ग्राह्यः । तेन विक्रयादौ क्रेत्रादेन संप्रदानता । श्राद्धादौ पित्रादेर्न स्वत्वभागित्वेनोद्देश्यत्वं, किंतु प्रीतिभागितयेति । अत एव संप्रदाने चतुर्थ्यसंभवात् नमः स्वस्तीत्यादिना सूत्रान्तरेण चतुर्थीविधानम् । रुद्राय गां ददातीत्यादौ रुद्रादेः स्वत्वभागित्वेनोद्देश्यत्वम् । एवं कर्मणेत्यादिसूत्रमप्येतत्परतयैव व्याख्येयमिति कर्मणा दानकर्मणा यमभिप्रैति स्वत्वभागित्वेनोद्देश्याकरोति तत्संप्रदानमिति । एवं च संप्रदीयतेऽस्मा इति व्युत्पत्त्या संप्रदानसंज्ञाप्यन्वथैव । वृक्षायोदकमासिञ्चतात्यादौ संप्रदानप्रयोगो गौणः चतुर्थीप्राप्त्यर्थः । अत एव शत्रवेऽस्त्रं मुञ्चति मित्राय दूतं प्रेरयतीत्यादौ धात्वर्थतावच्छेदकफलोद्देश्यत्वाभावेऽपि चतुर्थीप्रयोग उपपद्यते । विभागानुकूलव्यापारो मोचनम् । गमनानुकूलव्यापारश्च प्रेषणम् । तदवच्छेदकविभागगमनादिशालित्वेन शत्रुमित्रयोरनुद्देश्यत्वात् । तथाच तत्र तत्र उदकादिजन्यफलपल्लवादि-शस्त्रजन्यदुःखादि-दूतजन्यवार्ताज्ञानादिफलशालित्वेनोद्देश्यत्वमेव गौणश्चतुर्थ्यर्थः । न चैवं गुरुप्रीतिमुद्दिश्य गुरुपुत्राय दत्ते गुरवे ददातीति स्यात् । तथा विवक्षायामिष्टत्वात् । अत एव यत्र रजकसंबन्धित्वमानं तात्पर्यविषयस्तत्र रजकस्य वस्त्रं ददातीति प्रयोगः । यत्र वस्त्रजन्यफलभागित्वेनोद्देश्यत्वं तात्पर्यविषयः तत्र रजकाय वस्त्रं ददातीति प्रयोगो भवत्येव । - न चैवं श्राद्धादावपि पित्रादेः प्रीतिभागितया उद्देश्यत्वाद्गौणसंप्रदान १ प्राणवियोगानुकूल क्रियावच्छिन्नव्यापार इति पाठः । २ संयोगेति पाठः ।
SR No.034265
Book TitleVadarth Sangraha Part 02 Shatkarak Vivechan Karak Vadarth Samas Vadarth Vakar Vadarth
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1914
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy