________________
६ ग्रन्थः] षट्कारकविवेचनम्। फलप्रकारकेच्छापूर्वकत्वं चतुर्थ्यर्थः । व्युत्पत्तिवैचित्र्याञ्च तदेकदेशे जन्यत्वेऽप्रकृत्यर्थस्यापि कर्मणो गवादेर्निरूपकतासंबन्धेनान्वयः । स्वस्वत्वध्वंसपूर्वकपरस्वत्वोत्पत्त्यवच्छिन्नस्त्यागो ददात्यर्थः । कृतिराख्यातार्थः । एवं च विप्रविषयकगोजन्यफलप्रकारकेच्छापूर्वकगोवृत्तिस्वस्वत्वध्वंसपूर्वकपरस्वबोत्पत्त्यवच्छिन्नत्यागानुकूलकृतिमानित्यन्वयधीः ।
पितृस्वर्गमुद्दिश्य कृते गोदाने च दानजन्यफलभागित्वेन पिता उद्देश्यो न तु गोजन्यफलभागित्वेनेति पित्रादेर्न संप्रदानत्वम् । यदि च दत्ता गौः पितुः स्वर्गमुत्पादयिष्यतीत्यभिसंधिः तदा अदृष्टाद्वारकतादृशकर्मजन्यत्वं वाच्यम् ।
केचित्तु धात्वर्थतावच्छेदकत्वेन फलं विशेष्यं, निरूपितत्वेनेच्छाविषयत्वं चतुर्थ्यर्थः स च धात्वर्थतावच्छेदके फलेऽन्वेति, इत्थं च विप्रनिरूपि. तत्वेनेच्छाविपयगोवृत्तिस्वस्वत्वध्वंसपूर्वकपरस्वत्वोत्पत्त्यवच्छिन्नत्यागानुकूलकृतिमानित्यन्वयधीः । जन्यस्वत्वस्य गोवृत्तित्वे लब्बे अर्थात् तज्जन्यत्वं न्टभ्यत एवेति तादृशगोजन्यस्वत्वनिरूपकत्वेनोद्देश्यत्वं विप्रस्याक्षतम् ।__ एवं वृक्षायोदकं सिञ्चति इत्यादौ संयोगावच्छिन्नद्रवद्रव्याक्रियावच्छिअव्यापारो धात्वर्थः । वृत्तित्वेनेच्छाविषयत्वं चतुर्थ्यर्थः । स च धात्वर्थतावच्छेदकतावच्छेदकसंयोगान्वयी। वृत्तित्वरूपद्वितीयार्थोऽपि तादृशद्रवद्रव्यक्रियायाम्। एवं च वृक्षवृत्तित्वेनेच्छाविषयसंयोगानुकूलजलवृत्तिद्रवद्रव्यक्रियावच्छिन्नव्यापारानुकूलकृतिमानित्यन्वयवोधः ।
न चैवं सिञ्चयात्वर्थतावच्छेदकद्रवद्रव्यक्रियायां द्वितीयार्थवृत्तित्वान्वये पयसा वृक्षमासिञ्चाति प्रयोगो न स्यात्, तादृशक्रियाया वृक्षावृत्तित्वादिति वाच्यम् । तत्र संयोगावच्छिन्नद्रवद्रव्यक्रियाया एव धात्वर्थतया तद्वच्छेदकीभूतसंयोग एव वृक्षवृत्तित्वान्वयात् । द्रवद्रव्यसंयोग एव तत्र धात्वर्थ इति न युक्तम् । तथा सति फलावच्छिन्नव्यापाराबोधकवेन धातोरकर्मकत्वे धात्वर्थतावच्छेदकफलशालित्वाभावेन वृक्षादेरकर्मत्वापत्तेः । अत एवाजां ग्रामं नयतीतिवन्न द्विकर्मकत्वं संयोगावच्छिन्नद्रवद्रव्यक्रियार्थत्वे तदवच्छेदकफलद्वयाभावात् । तादृशक्रियावच्छिन्नव्यापारार्थकत्वे च तादृशक्रियायामेव द्वितीयार्थवृत्तित्वान्वयात्तक्रियावच्छेदकसंयोगे च चतुर्थ्यर्थस्योद्देश्यत्वस्यैवान्वयात् । फलबलेन तथैव व्युत्पत्तिक१ गोवृत्तित्वेनार्थादिति पाठः । २ सयोगावच्छिमोदकवृत्तीति पाठः ।