SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १२ [२ भाग: वस्तुतस्तु सहशब्दस्यापेक्षाबुद्धि विशेषविषयत्वादिरूपसाहित्यमर्थः । तृतीयार्थश्व वृत्तित्वं संख्यामात्रं वा । सहशब्दार्थस्य च संबन्धः प्रथमा'न्तार्थेनैव (तृतीयार्थेनापि समं वाक्यार्थः ?) । निपातातिरिक्तनामार्थयोरेव भेदान्वयस्य विभक्त्यर्थद्वारकत्वान् । साहित्यावच्छेदेन च सर्वत्र विधेयान्वयः । एवं च पुत्रेण सहागतश्चैत्रः इत्यस्य पुत्रवृत्तिसाहित्यावच्छिन्नञ्चैत्र आगमनकर्तेत्यन्वयबोधः । तेन शिष्येण सहोपाध्यायो ब्राह्मणः सुन्दर इत्यादौ द्रव्यगुणादिविधेयस्थले नानन्वयः । वादार्थसंग्रहः सदैव दशभिः पुत्रैर्भारं वहति गर्दभी । इत्यादौ पुत्रेषु भारवहन कर्तृत्वाभावेऽपि तादृशप्रयोगादेकदेशविधमानेत्यध्याहारेण एकदेशविद्यमानतायामुक्तसाहित्यस्यावच्छेदकतया अन्वयः । अत एवात्र विद्यमानसहार्थे तृतीयेति शाब्दिका वदन्ति । एवं पुत्रेण सह भुङ्क्ते इत्यादावप्यूह्यम् । एवं धान्येन धनवान् गोत्रेण गार्ग्यः प्रकृत्याभिरूप इत्यादौ प्रकृत्या - दिभ्यश्चेत्यनेनैव तृतीयाऽभेदार्थिका । धान्याभिन्नधनवानिति, गायों गर्गकुलोत्पन्नः: गोत्राभिन्नगर्गकुलोत्पन्न इति बोधः । प्रकृतिपदस्य साहजिकोऽभिरूपपदस्य रमणीयतावानर्थः । तथा च साहजिकाभिन्नरमणीयतावानित्यन्वयधीः । संप्रदानत्वविवेचनम् । कर्मणा यमभिप्रति स संप्रदानम् ' इति पाणिनिसूत्रम् । तत्क्रियाकरणीभूतेन तत्क्रियाकर्मणा यं संबन्धी कर्तुमभिप्रैति कर्ता स संप्रदानमिति सूत्रार्थः । एवं च ८ करणीभूतकर्मजन्य फलभ । गित्वेनोद्देश्यत्वं संप्रदानत्वम् । इति पर्यवसितम् । ग्रामं गच्छतीत्यत्र गमनकर्मजन्यफलभागित्वेनोहेश्यत्वस्य चैत्रादौ सत्त्वात् चैत्रादेस्तत्क्रियासंप्रदानत्वाभावात् तद्वारणाय करणीभूतेति । तत्र गमने ग्रामस्याकरणत्वात् । दानादौ च गवादि देयादिकमेव करणमिति लक्षणसमन्वयः । विप्राय गां ददातीत्यादौ जन्य १ सुखादिभागित्वेनेति पाठः ।
SR No.034265
Book TitleVadarth Sangraha Part 02 Shatkarak Vivechan Karak Vadarth Samas Vadarth Vakar Vadarth
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1914
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy