________________
६ ग्रन्थः
षट्कारकविवेचनम् ।
धिक्यं वा तदङ्गवाचकात्तृतीयेति सूत्रार्थः । इत्थं च तृतीयायाः वृत्तित्वमर्थः । तच्चेह व्युत्पत्तिवैचित्र्यात्काणादिपदार्थैकदेशे विकार एवान्वेति ।
काणत्वं च बहिरवच्छेदेन चक्षुःशून्यगोलकवत्त्वं, जातप्रभृत्यन्धस्याकाणत्वे तु चक्षुष्मद्गोलकवत्त्वे सतीति विशेषणीयम् । एकेनार्धेन वा चक्षुषा पश्यन्नपि काण एव गोलकाधै गोलके वा चक्षुरभाववत्त्वात् । गोलकोपघातेऽपि काण एव तदवच्छेदेन चक्षुरभावात् । यदि च तद्गोलकावच्छेदेन चक्षुःसत्त्वेप्युपघातादेव च न तत्र चाक्षुषं तदोपहतगोलकवत्त्वमेव काणत्वम् । अक्ष्णेतिपदसमभिव्याहारस्थले च काणपदं चक्षुःशून्यत्वविशिष्टस्य उपहतत्वविशिष्टस्य वा बोधकम् । अक्षिपदं च यदाकदाचिचक्षुष्मदोलकपरम् । एवं च तादृशगोलकवृत्ति चक्षुःशून्यत्वमुपघातो वा तद्विशिष्टवानित्यक्ष्णा काण इति वाक्यार्थः ।
एवं खञ्जत्वं तथाविधसंस्थानशून्यपादबत्त्वम् । पादेनेत्यादिपदसमभिव्याहारस्थले च तादृशसंस्थानशून्यवानेव खञ्जपदार्थः । तथा च पादवृत्ति यत्तथाविधसंस्थानशून्यत्वं तद्विशिष्टवानित्यर्थः ।
त्रिलोचन इत्यस्य च बहुव्रीहिणा लोचनत्रयवानित्यर्थः । तथा च मुखवृत्तिलोचनत्रयवानिति 'मुखेन त्रिलोचन' इतिवाक्यार्थः । एवमन्यत्राप्यूह्यम् । __अक्ष्णा काण इत्यादौ पूर्वानरुक्ता एव पदार्थाः । तृतीया चाभेदे । तथा च तादृशगोलकाभिन्नं यच्चक्षुःशून्यमुपहतं वा तद्वानिति वाक्यार्थः । मुखेन त्रिलोचन इत्यत्र तु त्रिलोचनपदं लोचनत्रयविशिष्टवत्परम् । तथा च मुखाभिन्नलोचनत्रयविशिष्टवानिति वाक्यार्थः । एवं पादेन खञ्जः इत्यादावपि बोध्यमित्यपि कश्चित् ।
धनेन कुलमित्यादौ तृतीया हेतुत्वे । कर्तृकरणयोस्तृतीयेत्यत्र क्रियासाकाङ्के निरुक्तकरणत्वे तृतीया विहिता, अत्र तु नामार्थेनापि साकाङ्के हतुत्वसामान्ये हेताविति सूत्रेण तृतीया विहिता इति भेदः ।
पुत्रेण सहागत इत्यादौ तृतीयायाः कर्तत्वमर्थः । सहशब्दस्य समभिव्याहृतक्रियाऽऽगमनादि । तस्य चैकवादिरूपैकदेशावच्छेदेनैकका. लीनत्वसंसर्गेण समभिव्याहृतक्रियायामन्वयः । एवं च पुत्रकर्तृकतादृशागमनसमानकालीनागमनकर्तेत्यन्वयबोधः ।
१ जातप्रसन्नान्धस्येति पाठः ।
-