SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ___ वादार्थसंग्रहः [२ भागः चेष्टया हस्तादिना च छिनत्तीति प्रयोगस्य सर्वसंमतत्वात् । कर्मादौ विवक्षावशात्प्रयोगो भवत्येव । तण्डुलेन स्थाल्यां पांकं साधयति गवा दानं साधयति ब्राह्मणेन दानं साधयाति प्रयोगात् । चैत्र आत्मना चैत्रेण वा पचतीत्यप्रयोगात् कर्तुः शरीरस्य च वारणाय द्रव्यासमवायि-क्रियानुकूलकृतिमद्-भिन्नत्वं विशेषणं देयम् । कृतिमत्त्वं च समवायेनावच्छेदकतया च बोध्यम् । तेन शरीरस्य आत्मनश्च व्युदासः; विशिष्टाभावाच हस्तादिसंग्रहः । इदं च न व्याप्तिस्मृत्यादिसाधारणम् । तत्र च पूर्वनिरुक्तमेव करणत्वम् । इत्थं च करणपदं नानार्थमेवेत्याहुः । परशुना छिनत्तीत्यादौ निरुक्तं करणत्वं तृतीयार्थः । प्रकृत्यर्थस्य तत्राश्रयत्वेन धात्वर्थस्य छिदादेश्च निरूपकत्वेनान्वयः । इत्थं च परशुनिष्ठकरणतानिरूपकच्छिदानुकूलकृतिमानित्यन्वयधीः इति प्राञ्चः । परशुना छिनत्ति न दात्रेणेत्यादौ निरूपकत्वादेः ( संसर्गस्य) प्रतियोगितावच्छेदकसंबन्धत्वाभावान्नमर्थानुरोधेन निरुक्तकरणतानिरूपितं जन्यत्वमेव तृतीयार्थः । तत्र च निरूपकतया प्रकृत्यर्थस्य आश्रयतया च धात्वर्थस्यान्वयः । इत्थं च परशु (निष्ठकरणता) निरूपितजन्यताश्रयच्छिदानुकूलकृतिमानित्यन्वयधीः इति नव्याः । जटाभिस्तापसमद्राक्षीदित्यादौ तृतीया न करणत्वे किंतु विशेषणत्वे । तच प्रकृते वैशिष्टयरूपं, जदाभिस्तापसमित्यस्य जटाविशिष्टं तापसेमित्यर्थः। अत्र चोपलक्षणत्वेऽभिधानम्। उपलक्षणत्वं च बोध्यान्यव्यावृत्त्यनवच्छेदकत्वे सति तत्समानाधिकरणत्वम् । जटाया अतापसव्यावृत्त्यनवच्छेदकत्वात् । शमदमादिमत्त्वस्यैवापिसव्यावृत्त्यन्यूनानतिरिक्तवृत्तित्वेनाबच्छेदकत्वात् । न चैवं शमदमादिना तापस इति न स्यात् । इष्टत्वात् । विवक्षावशादुक्तप्रयोगस्येष्टत्वे च विशेषणोपलक्षणसाधारणं वैशिष्ट्यमात्रं न तूपलक्षणत्वमपि नियामकम् । अक्ष्णा काणः पादेन खजः मुखेन त्रिलोचन इत्यादौ वपुषा चतुर्भुजः इत्यादौ (च) येनाङ्गविकार इतिसूत्रेण तृतीया । येनाङ्गेन विकारो हानिरा १ प्रायो भवत्येवेति पाठः २ अन्नमिति पाठः । ३ छिदादौ चेति पाठः । ४ बोध्यव्यावृत्त्यनवच्छेदकत्वे । ५ व्यावृत्तिसमानाधिकरणत्वमिति पाठः । ६ व्यावृत्त्यवृत्तीति पाठः । ७ इष्टत्वाच्चेति पाठः ।
SR No.034265
Book TitleVadarth Sangraha Part 02 Shatkarak Vivechan Karak Vadarth Samas Vadarth Vakar Vadarth
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1914
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy