________________
६ ग्रन्थः]
षट्कारकविवेचनम् ।
कुठारादि व्यापारयञ्छिदालक्षणं फलमुत्पादयतीति करणे चरितार्थो न तु फले । कापि करणे चरितार्थ कर्मासिद्धौ करणव्यापारासिद्धेः। नहि छेद्यासिद्धौ कुठारादिकरणानां छिदानुकूलव्यापारः संभवति । अत एव करणव्यापारविषयत्वं कर्मत्वमिति प्राञ्चः । अधिकरणमपि कर्तृकर्मान्यतरव्यापारद्वारा क्रियानिष्पादकम् । यथा गृहे चैत्र: स्थाल्यां तण्डुलं पचतीत्यत्र चैत्रव्यापारसंपादनेन गृहस्य तण्डुलव्यापारसंपादनेन स्थाल्याश्च कारकत्वम् । संप्रदानापादानयोश्च न क्रियासामान्यहेतुत्वम् । किं तु दाने अनुमतिप्रकाशनेन कर्तुरिच्छामुत्पाद्य संप्रदानस्य, पतनाश्रये च पर्णादी पतनप्रतिबन्धकसंयोगनाशजनकविभागमुत्पाद्य चापादानस्य चरितार्थत्वमेवेति ।
करणं च कारकान्तरे न चरितार्थम्, तस्य चरमकारणत्वात् । एवं च तदनुकूलव्यापारमद्वारीकृत्य तजनकत्वं फलायोगव्यवच्छिन्नकाणत्वं पर्यवसितं . करणत्वमिति लब्धम् । एवं च तन्मते चरमकारणमेव करणामिति कुठारादौ करणपदं गौणमिति ।।
वस्तुतस्तु*व्यापारवत्कारणं करणम* । तेन हस्तादौ कुठारादौ च नाव्याप्तिः । न चैवमदृष्टद्वारा कार्यमात्रे, विशेषतः ज्ञानेच्छादौ मनोयोगद्वारा आत्मनः करणत्वापत्तिः । उपधेयसंकरस्येष्टत्वात् । अनुकूलकृतिसमवायित्वलक्षणकर्तृत्वस्य निरुक्तकरणत्वादन्यत्वेनैवोपाध्योरसंकरात् ।
कर्तृभिन्नत्वेन करणलक्षणं विशेषणीयमित्यपि कश्चित् ।
इत्थं चानुमितौ व्याप्तिस्मृतिः करणं परामर्शी व्यापारः । चक्षुरादेश्वाक्षुषादिज्ञान चक्षुरादिसंयोगः, श्रोत्रस्य श्रावणज्ञाने श्रोत्रमनःसंयोगो न तु शब्दो व्यापारः, शब्दाभावप्रत्यक्षे तस्य व्यभिचारात् । न च शब्दश्रावणे शब्दो व्यापारः, लाघवेन श्रावणत्वावच्छिन्नं प्रत्येव श्रोत्रत्वेन हेतुत्वान , न तु शब्दश्रावणत्वावच्छिन्नं प्रति गौरवात् ।।
अन्ये तु कुठारादौ करणे*कर्तृव्यापारविषयत्वं करणत्वम् । तच्च फलानुकूलकर्तृव्यापारवत्त्वं कुठारादौ छिदानुकूलकर्तृजन्यनमनोन्नमनादिमत्वमविकलम् । न चैवंस्थाल्यादेरधिकरणस्यापि कर्तृव्यापार्यत्वात् तत्रातिव्याप्तिरिति वाच्यम्, उपधेयसंकरस्येष्ठत्वात् । छिदादी चेष्टायाः प्रयत्नरूपकर्तृव्यापारविषयत्वेन हस्तादेश्व तज्जन्यचेष्टावत्त्वेन च करणत्वमिष्टमेव !
१ संयोगेति पाटः।