________________
वादार्थसंग्रहः . . [२ भागः श्राधःसंयोगरूपफलेनान्वयः । एवं ददात्यादेरपि व्यापारमात्रार्थत्वे द्वितीयादीनां(?दिना) तत्तत्फलविशेषान्वयो बोध्य इत्याहुः । .. कर्म च त्रिविधं प्राप्यं, विकाय, निर्वत्यै चेति । ... संयोगादिफलशालि प्राप्यं, यथा ग्रामं गच्छतीत्यादौ प्रामादिः । क्रिया यद्ध(?त्क)मनाशकं फलं जनयति तद्विकार्य, काण्डं लुनाति इत्यत्र काण्डपदेन लक्षणयावयवा उच्यन्ते । लुनातिना चारम्भकसंयोगविरोधिविभागहेतु: कुठारादिव्यापारः । तथा च काण्डावयववृत्तितादशविभागावच्छिन्नव्यापारानुकूलकृतिमानित्यन्वयधीः । एवं च प्राप्यविकार्ययोः कारकत्वात्तादृशफलाश्रयत्वाच्च मुख्यकर्मत्वम् ।। . निर्वत्यै च निष्पाद्यं, यथा कटं घटं वा करोतीति । अत्र च कृञ्धातोः फलावच्छिन्नव्यापाराबोधकत्वात् कटादेम्तादृशफलानाश्रयत्वेन गौणं कर्मत्वम् । तच्च साध्यत्वेन विषयत्वम् । अत एव वीरणादेरुपादानस्वेन विषयत्वेऽपि वीरणं करोतीति न प्रयोगः ।
प्राञ्चस्तु कटादेगौणकर्मत्वेऽपि कारकस्वोपपत्त्यर्थमवयवे. लक्षणा कटस्यासिद्धत्वेनाकारकत्वात् । न चैवं कदाचित् वीरणं करोतीति मुख्यप्रयोगः स्यादिति वाच्यम् । करोतिपदसमभिव्याहारे कर्मवाचकपदम्यावयवे निरूढलक्षणानियमादित्याहुः ।
ओदनं पचतीत्यादौ ओदनपदस्य तण्डुले तदवयवे वा लक्षणा । धातुना च रूपादिपरावृत्तिफलाकाधःसंतापनादि । तथा च तत्तद्धात्वर्थतावच्छेदकरूपादिपरावृत्तिशालित्वात् कर्मत्वं, अत्र च पूर्वरूपविरोधेन रूपान्तगपत्तियदि विकारस्तदा विकार्यमध्ये अन्यथा तु प्राप्यमध्ये अम्यान्तर्भावः ।
स्तोकं पचतीत्यादौ क्रियाविशेषणे द्वितीया, विशेषणविभक्तिवत् पेंयोगः साधुः । धात्वर्थे स्तोकस्याभेदः संसर्गः । नामार्थधात्वर्थयोर्भेदान्वयबोध एव. प्रकारीभूतविभक्त्यर्थोपस्थितेस्तन्त्रत्वात् । नीलं घटमित्यादौ विशेषणविभक्तेरभेदार्थकत्वे तु अस्या अपि अभेदार्थकत्वमिति ॥
करणत्वविवेचनम्। करणत्वं च-- : कारकान्तरेऽचरितार्थत्वे सति फलहेतुत्वम् । तत्र चरितार्थत्वं च तद्व्यापारमुत्पाद्यैव फलहेतुत्वम् । कर्ता हि सिद्धं १ प्रयोगसाधुत्वार्थकत्वम् इति पाठः ।