________________
६ ग्रन्थः ] षट्कारकविवेचनम् ।
यद्वा पतिबातोरकर्मकत्वं कर्तृभिन्नान्वयिफलावच्छिन्नव्यापारबोधक- . स्यैव धातोः सकर्मकत्वात् । यथा ग्रामं गच्छतीत्यादौ गम्यादेः । पतिर्हि पर्णगतमधःसंयोगमेव बोधयति न तु भूतलगतं भूतलस्याधःसंयोगाभावात् । पर्णस्याधो भूतलमित्येव प्रतीतेः । अत एव भूतले. पततीत्येव प्रयोगः न तु भूतलं पततीत्याहुः ।
प्राश्चस्तु ग्रामं गच्छति त्यजति, गम्यते त्यज्यते वा ग्राम इत्यादी संयोगविभागयोः फलयोः द्वितीया-कर्माख्याताभ्यां प्रत्यायनात् अनन्यलभ्यस्पन्दाद्यात्मकव्यापार एव तत्र धात्वर्थः । न चैवं तत्तन धातुयोगे द्वितीयादेः संयोगत्वादिना फलविशेषबोधकत्वोपगमेन ग्राम गच्छति त्यजति इत्यादौ ग्रामवृत्तिसंयोगजनकस्पन्दस्य ग्रामवृत्तिविभागजनकस्पन्दस्य च लाभात्पर्यायत्ववारणेऽपि गच्छति त्यजति गमनं त्याग इत्यनयोः पर्यायता स्यादिति वाच्यम् । संयोगावच्छिन्नस्पन्दशाब्दत्वस्य गमेविभागावच्छिन्नस्पन्दशाब्दत्वस्य त्यजे: कार्यतावच्छेदकत्वात् । एवं च यथायथं संयोगविभागावच्छिन्नस्पन्दलक्षणां विना त्यजति गच्छतीत्यनयोरबोधकत्वमेव ।
संयोगावच्छिन्नस्पन्दशाब्दत्वं च जन्यजनकभावसंबन्धेन संयोगस्पन्दोभयवैशिष्टथावगाहिशाब्दत्वम् । तेन त्यज्यते गम्यते ग्राम इत्यादी स्पन्दविशेषणककर्माख्यातार्थसंयोगादिविशेष्यकशाब्दस्य संग्रहः । भावाख्यातस्थलेऽपि गमनमित्यादाविव संयोगाद्यवच्छिन्नस्पन्दे धातोर्लक्षणैव । न चैवं लक्षणया अपि गमित्यजिभ्यां त्यागगमनयोरबोधप्रसङ्ग इति वाच्यम् । शक्तिलक्षणान्यतरसंबन्धेन संयोगाद्यवच्छिन्नस्पन्दबोधकत्वानुपपत्तेनिर्णयानन्तरमेव गम्यादिना विभागाद्यवच्छिन्नस्पन्दबोधनात् ।एवं च
परसमवेततत्तद्धात्वर्थान्वयिफलविशेषशालित्वं तत्तहात्वर्थकर्मत्वम् । अत एव गमधातोः पूर्वदेशे न कर्मत्वं तस्य विभागरूपफलेनानन्वयात् । एवं पतेरपि गुरुत्वासमवायिकारणप्रयोज्या विजातीयक्रियैव.अर्थः । तस्या
१ इत्यन्यदतत् इति पाठः । २ लाभादिति पाठः । ३ बोधकानुपपत्तेरिति; बोधकत्वान्यथानुपत्तेरिति च पाठः ।
-
-