________________
वादार्थसंग्रहः [२ भागः मस्यावच्छेदकतावच्छेदकतया तदन्वयिनोऽप्यग्नेः कर्मत्वासंभवेन द्वितीयदोषस्याप्यभावात् ।
द्वितीयाद्यर्थश्च वृत्तित्वं तच्च धात्वर्थतावच्छेदके फलेऽन्वेति । एवं च विप्राय गां ददाति विष्णु यजते घृतं जुहोति इत्यादौ विप्रोद्देश्यकगोवृत्तिस्वस्वत्वध्वंसपूर्वकपरस्वत्वफलकत्यागानुकूलकृतिमान, विष्णूद्देश्यकस्वस्वत्वध्वंसफलकत्यागानुकूलकृतिमान् , घृतवृत्त्यग्निसंयोगावच्छिन्नक्रियानुकूलव्यापारानुकूलकृतिमान् इत्यादि क्रमेणान्वयधीः । अत्र देवतायाः म्वत्वस्वीकारे तत्र द्वितीयार्थवृत्तित्वान्वयेनैव विष्णोः कर्मत्वम् । इतरथा तु उद्देश्यतासंबन्धेन तादृशस्वत्वध्वंसरूपधात्वर्थतावच्छेदकफलवत्त्वात् कर्मत्वम् । अत एव मन्त्रकरणकहविस्त्यागभागित्वेनोद्देश्यत्वं देवतात्वमिति मणिकृतः । घृतं जुहोतीत्यत्र धात्वर्थतावच्छेदकीभूताग्निसंयोगानुकूलक्रियावत्त्वात् कर्मत्वम् ।
मूल्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपूर्वकपरस्वत्वजनकत्यागो विक्रयः, मूल्यप्रदानपुरःसरं स्वस्वत्वोत्पादकस्वीकारः क्रयः, दत्तद्रव्यस्वत्वजनकस्वीकारः प्रतिग्रहः । तथा च गां विक्रीणीते क्रीणाति प्रतिगृह्णाति वेत्यादौ गोवृत्तिमूत्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपूर्वकपरस्वत्वोत्पत्त्यवच्छिन्नत्यागानुकूलकृतिमान गोवृत्तिमूल्यदानप्रयुक्तस्वत्वावच्छिन्नस्वीकारवान् गोवृत्तिदानप्रयुक्तस्वत्वजनकस्वीकारवानिति क्रमादन्वयधीः । सर्वत्र धात्वर्थतावच्छेदकतत्तत्फलाश्रयत्वेन गवादेः कर्मत्वम् । एवमनयैव दिशा सर्वत्र कर्मत्वमूह्यम् ।
न चैवमपि पतेरधःसंयोगावच्छिन्नस्पन्दात्मकतया तदवच्छेदकीभूताधःसंयोगवत्त्वात् भूतलादेः कर्मत्वे वृक्षात्पर्ण भूतलं पततीति प्रयोगः स्यादिति वाच्यम् । तथा विवक्षायामिष्टत्वात् । अत एव द्वितीयाश्रितातीतपतितेत्यादिसूत्रे पतितशब्दयोगे द्वितीयान्तसमासविधानं, तदुदाहरणं च नरकं पतितो नरकपतित इत्यादि साधु संगच्छते । कचित्सतम्यपि साधुः भूतले पततीति, ग्रामे गच्छातिवत् ।।
अन्ये तु तादृशफलशालित्वेऽपि भूतलादेन द्वितीया, फलस्य हि संबन्ध्याकाङ्क्षायां भूतलादेरन्वयो वाच्यः, प्रकृते चाधःसंयोगरूपफलस्याधोवृत्तितयोपस्थितराश्रयान्तरनिराकाङ्कत्वात् ।
१ विष्णोरुद्देश्यतासंबन्धेन तादृशस्वत्वध्वंसरूपधात्वथतावच्छेदकफलवत्त्वाद्धृतस्य जुहोतीत्यत्र इति पाठः । २ स्वत्वावच्छिन्नेति पाठः । ३ आश्रयाकाक्षायामिति पाठः।