________________
६ ग्रन्थः ]
षट्कारकविवेचनम् ।
यद्व्यक्तेरन्वयः तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन प्रकृत्यर्थस्य कर्माख्यातार्थ फैलान्वयिनश्च परत्वेऽन्वयः । पृथिवीं प्रयातीत्यादौ यत्पूथिवीवृत्तिसंयोगजनकत्वं प्रयाणस्य शाब्दधीविषयः तद्व्यक्तिभिन्नत्वं विहगे वर्तत इति न कोऽपि दोषः ।
अन्ये तु पृथिवीं प्रयातीत्यादौ भूखण्डस्यैव पृथिवीपदार्थत्वात् न तु वृक्षविहगसाधारणपृथिवीत्वजात्यवच्छिन्नस्य, तथा चान्वयितावच्छेदकावछिन्नप्रतियोगिताकत्वस्य व्युत्पत्तावपि न क्षतिः । एवमन्यत्रापि कर्मवा'चकसामान्यपदे लक्षणया विशेषपरत्वं सूपपन्नमित्याहुः ।
यत्तु तत्क्रियानधिकरणत्वे सति तत्क्रियावच्छेदकफलशालित्वं कर्मत्वं द्वितीयादेरपि तत्क्रियानधिकरणत्वमर्थ इति तन्न, क्रियाव्यक्तिभेदादनन्तशक्तिकल्पनापत्तेः ।
वस्तुतस्तु अन्योन्याभावप्रतियोगितावच्छेदकत्वं क्रियान्वयि द्वितीयादेरर्थः । तथा च द्वितीयाद्यर्थफले पदार्थैकदेशे अन्योन्याभावे च एकव्यhra प्रकृत्यर्थस्य कर्माख्यातार्थ फैलान्वयिनश्चाधिकरणत्वेनान्वयः । एवं च भूमिं प्रयातीत्यादौ भूमिवृत्तिसंयोगजनकभूमिवृत्त्यन्योन्याभावप्रतियोगितावच्छेदकप्रयाणानुकूलकृतिमानित्यन्वयश्रीः | स्वात्मक्रियाया स्ववृत्त्यन्योन्याभावप्रतियोगितानवच्छेदकत्वात् स्वात्मानं प्रयातीत्या
देर्न प्रसङ्गः ।
एवं ददातेर्मूल्यग्रहणं विना स्वस्वत्वध्वंसपूर्वकपर स्वत्वोत्पत्त्यवच्छिन्नत्यागो यजतेश्च देवतोदेश्य कस्व स्वत्वध्वंसफलकत्यागः जुहोतेश्च तादृशत्बागफलकाग्निप्रक्षेपः । अत एव ऋत्विजां तादृशत्यागाभावेऽपि होतृत्वम् । अग्निप्रक्षेपञ्चाग्निसंयोगानुकूलक्रियानुकूलघृतादिवृत्तिनादनादिव्यापारः । न चैत्रग्नौ जुहुयादित्यत्राग्निवृत्त्यग्निसंयोगानुकूलक्रियानुकूलघृतादिवृत्तिनोदनादिव्यापारः इत्यादिशाब्दबोधे पुनरुक्तिनिबन्धनोऽनन्वयः धात्वर्थतावच्छेदकसंयोगरूपफलशालित्वेनाग्नेरपि कर्मत्वापत्तिश्चेति वाच्यम् । तत्र संयोगावच्छिन्नक्रियानुकूलव्यापारस्यैव धात्वर्थतावच्छेदकतया आद्यदोषस्याभावात् । तत्र क्रियाया एवं धात्वर्थतावच्छेदकतया संयो
१ फलशालिनः इति पाठ: । २ व्युत्पन्नत्वेऽपि इति पाठः । ३ वच्छिन्न इति पाठः । ४ फलशालिनश्चेति पाठः । ५ आत्मवृत्तिक्रियायाः आत्म' इति पाठः । ६ जनकस्त्यागः इति पाठः । ७ क्रियेत्यादिशाब्दे पुनरुक्तिनिबन्धनोऽनन्वयः इति पाठः ।