________________
वादार्थसंग्रहः
[ २ भाग:
गमिपत्योः कर्मत्वस्य पूर्वस्मिन्देशे, त्यजेश्वोत्तरस्मिन्, स्पन्देः पूर्वापरदेशयोः प्रसङ्गात् । नदी वर्धत इत्यादौ वृद्धेरवयवोपचयस्य परंपरया तीरप्राप्तिफलकत्वात् तज्जन्यफलाश्रये तीरेऽतिव्याप्तेः ।
अत्राहुः —त्यजिगमिप्रभृतीनां स्पन्दमात्रं नार्थः । नहि त्यजति गच्छतीत्यनयोः प्रतीत्योरविशेषं कश्चिदभ्युपैति । एवं च त्यजेर्विभागेन, गमेरुत्तरसंयोगेन, पतेश्चाधः संयोगेनावच्छिन्नाः स्पन्दा वाच्याः । तथा च तत्तद्धात्वर्थतावच्छेदकफलशालित्वं तत्तद्धात्वर्थकर्मत्वं, स्पन्देर्वृधधातोश्च फलावच्छिन्नव्यापाराबोधकत्वान्न पूर्वापरदेशयोस्तीरस्य च कर्मत्वम् । फलावच्छिन्नव्यापारबोधकत्वादेव धातूनां सकर्मकत्वव्यवहारो मुख्यः ।
सविषयपदार्थाभिधायिजानातीत्यादीनां तु विषयित्वरूपविभक्त्यर्थद्वारा नामार्थान्वयित्वमेव गौणं सकर्मकत्वम् । घटं जानातीत्यादौ द्वितीयातो विषयित्वोपस्थितौ घटविषयिता यज्ञानाश्रयतावान् इत्यन्वयबोधात् । अत एव ने यतधातोः सकर्मकत्वं तदुपस्थापिते यत्ने नामार्थस्योद्देश्यत्वेनैवान्वयबोधात् । अभुञ्जानेऽपि भोजनाय यतत इति प्रयोगात् । अत एव तादृशधातुयोगे कर्मप्रत्ययाभावाद् भोजनं यतत इति न प्रयोगः ।
अत्र भूमिं प्रयाति तरुं त्यजति खग इत्यादौ धात्वर्थतावच्छेदकसंयोगविभागरूपफलशालित्वेऽपि स्वस्य, स्वं प्रयाति त्यजतीत्यप्रयोगात् धात्वर्थे परसमवेतमपि विशेषणं देयम् । न चैवमुभयकर्मजसंयोगस्थले मल्लो मल्लं गच्छतीतिवत्स्वात्मानं गच्छतीति प्रयोगः स्यात् । भूमिं प्रयातीत्यादितो हि द्वितीयादिना परत्वं प्रकृत्यर्थापेक्षिकं बोध्यते । तथा च भूमिभिन्नसमवेतभूमिवृत्तिसंयोगजनकस्पन्दानुकूलकृतिमानित्यन्वयबोधः ! स्वात्मानं गच्छतीत्यादौ तु स्वात्मभिन्नसमवेतं स्वात्मवृत्तिसंयोगजनकं यन्मल्लान्तरवृत्तिगमनं तदनुकूलकृतिमत्त्वस्य स्वस्मिन्नभावादेव नातिप्रसङ्गः । अत्र प्रकृत्यर्थस्यान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वसंबन्धेन न परत्वेऽन्वयः । पृथिवीं प्रयाति विहग इत्यादौ विहगस्य पृथिवीत्वावच्छिअभिन्नत्वाभावाद नन्वयापत्तेः । प्रतियोगितामात्रेणान्वये स्वात्मनोऽपि स्वप्रतियोगिकद्वित्वावच्छिन्नभिन्नत्वात्तथैव दोषात् । अतो द्वितीयाद्यर्थफले
१ यतधातोरकर्मकत्वमिति पाठः । २ आत्मानमिति पाठः । ३ स्वप्रकृत्यर्थतावच्छेदकावच्छिन्नेति पाठः ।