________________
६ प्रन्थः ] षट्कारकविवेचनम् ।
'स्वतन्त्रः कर्ता ' इति पाणिनिसूत्रमप्येतत्परतयैव व्याख्येयमिति । तन्न । अचेतने अभियुक्तानां स्वरसतः कर्तृपदाप्रयोगात् । ..
यत्तु*कारकान्तराप्रयोज्यत्वे सति कारकान्तरप्रयोजकत्वं कर्तृत्वम् * इति । सत्यन्ताच छेद्यसंयोगादिरूपव्यापारजनके कुठारादौ नातिव्याप्तिरित्यपरे । तदप्यसत् । ईश्वरप्रयोज्यानां संसारिणां तत्तनियास्वकर्तृतापत्तेः । अप्रयोज्यत्वं च यदि फलानुकूलतजन्यव्यापारानाश्रयत्वं तदा दण्डादिजन्यसंयोगादिरूपव्यापाराश्रयत्वात् कुलालादाकव्याप्तिः, अन्यच्च दुर्वचमिति । अत्राहुः
अनुकूलकृतिमत्त्वं कर्तृत्वम् । । . पाकानुकूलव्यापारवत्त्वप्रतिसंधानेऽपि काष्ठादौ तान्त्रिकाणां स्वरसतः कर्तृपदाप्रयोगात् , कृताकृतविभागादिना कृधातोर्यत्नार्थकत्वे निश्चिते आश्रयार्थक-तृजन्तकृधातुव्युत्पन्नकर्तृपदस्य यत्नाश्रयार्थबोधकत्वाञ्च, अचेतने कर्तृपदप्रयोगो गौणः । यदि चान्यविषयककृतिजन्ये नान्तरीयके मत्तो भूतं न तु मया कृतमिति व्यपदेशान्न मुख्यं कर्तृत्वं तदा तद्विषयकत्वेनापि कृतिर्विशेषणीया ।
न चैवं तत्तद्विषयककृतिमत्त्वमेव तत्तक्रियाकर्तृत्वमस्तु, गुरुतरभारोत्तोलनादौ तद्विषयककृतिमत्त्वेऽपि उत्तोलनक्रियाद्यनिष्पत्तौ कर्तृपदाप्रयोगात् । विषयत्वं च साध्यत्वेन बोध्यम् । तेन भोजनकृतेरुद्देश्यत्वेन सुखादिविषयत्वेऽपि तत्कर्तुर्न सुखकर्तृत्वम् । अस्मदादिकर्तृकपाकादावीश्वरस्य कर्तृत्वमिष्टमेव । न चैवमीश्वरः पचतीति स्यात् , तथाविवक्षायामिष्टत्वात् । कार्यत्वानवच्छिन्नजन्यतानिरूपितमसाधारणमनुकूलत्वमेव लक्षणघटकमित्यप्याहुः ।
कर्मत्वविवेचनम्।. .. कर्मत्वं तु न*करणव्यापार्यत्वम् । तद्धि करणजन्यक्रियानुकूलव्यापाराश्रयत्वम् । तच्च दोत्रेण धान्यं लुनातीत्यादौ हस्तादिकरणव्यापायें दात्रेऽतिव्याप्तम् । नापि *परसमवेतक्रियाजन्यफलशालित्वम् । - १ क्रियाया अक" इति पाठः । २ विशेषणीयम् ३ सुखविषयकत्वेन इति पाठः । ४ संबन्धमिति पाठः । ५ व्यापारवत्त्वमिति पाठः।।