________________
२४
वाक्यवादटीका भावे एकत्वान्वयानुपपत्तेः । न च तत्र भूतलवृत्त्यभावप्रतियोगिघटोऽस्तीति बोधस्तथाच घटस्य भावनान्वयित्वेन तत्रैव तदुक्तसंख्यान्वय इति भूतले घटौ नास्तीत्यत्र तदुक्तैकत्वस्य भावनान्वयिघटद्वये बाधेनायोग्यत्वमिति वाच्य, के इत्यधिकरणाकालापत्तेः-इति चेन्न । नसमभिव्याहारस्थले यो भावनान्वय्यभावप्रतियोगी तनिष्ठविशेष्यतासंबन्धेन तदुपस्थितेः संख्यान्वयबोधे कारणत्वं,नञसमभिव्याहारस्थले यो वस्तुगत्या भावनान्वर्या तनिष्ठविशेष्यतासंबन्धेन तदुपस्थितेः संख्यान्वयबोधे कारणत्वम् । एवं च घटो नास्तीत्यत्र घटाभावोऽस्तीति बोधेऽपि भावनान्वय्यभावप्रतियोगिनि घटे एकत्वान्वयसंभवेन योग्यत्वं, घटौ नास्तीत्यत्र तादृशे घटद्वये एकत्वान्वयासंभवेनायोग्यत्वं, घटौ न स्त इत्यत्र तादृशे घटद्वये स्त इति द्विवचनोपात्तद्वित्वान्वयसंभवेन योग्यत्वमिति निरुक्तदोषाभावात् ।
यद्वा भूतले घटो नास्तीत्यत्र निरूपितत्वं सप्तम्यर्थो विद्यमानत्वमसधातोरर्थ आश्रयत्वमाख्यातार्थः । तथा च भूतलनिरूपितविद्यमानत्वाश्रयत्वाभाववानेको घट इति बोधे आख्यातोपस्थाप्यैकत्वस्य घटेऽन्वयेन तद्वाक्यस्य योग्यत्वं, घटौ नास्तीत्यत्र विद्यमानत्वाश्रयत्वाभाववति घटद्वयेऽस्तीत्येकवचनोपात्तैकत्वस्य बाधेनायोग्यत्वम् । न चाख्यातार्थस्य निषेधेऽन्वयो न दृष्टचर इति वाच्यम् । न पचति चैत्र इत्यादावेव निषेधे आख्यातार्थकृतेरन्वयस्य दृष्टत्वात् । ननु तत्र घटस्य भावनान्वयित्वाभावेन भावनान्वय्यभावप्रतियोगित्वाभावेन च कथमाख्यातोपस्थाप्यसंख्यान्वय इति चेन्न । यः साक्षात्परंपरासाधारणभावनाविशेष्यस्तन्निष्ठविशेष्यतासंबन्धेन प्रथमान्तजन्योपस्थितेराख्यातार्थसंख्यान्वयबोधे कारणत्वस्वीकारेण तत्र घटस्य साक्षाद्भावनाविशेष्यत्वाभावेऽपि स्वाश्रयाश्रयत्वसंबन्धेन भावनाविशेष्यत्वात्तत्र संख्यान्वयानुपपत्तेरभावात् । न चैवमपि द्वित्वव(टत्वावच्छेदेन भूतलनिरूपितवर्तमानत्वाश्रयत्वाभावस्यान्वये एकघटवति भूतले घटौ न स्त इति न स्यात, घटवृत्तिद्वित्वसामानाधिकरण्येन तादृशनञर्थान्वये तु घटद्वयवत्यपि घटौ न स्त इति स्यादधिकरणान्तरीयघटे भूतलास्तित्वाभावादिति वाच्यम् , घटवृत्तिद्वित्वत्वावच्छेदेन नगर्थस्य सामानाधिकरण्यान्वयात् । अधिकरणान्तरीयद्वित्वे नर्थसामानाधिकरण्येऽप्ये
१ भूतलवृत्त्यभावप्रतियोगिघटोस्तीतिवाक्यार्थबोधाङ्गीकारे इति शेषः ।