SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ बाक्यदीपिका त्यादि । असाधुत्वापत्तावित्यतः पूर्वमुपमानोपमेयवाचकपदयोलिङ्गवचनक्येऽपि इति शेषः । तथा च लिङ्गवचनैक्येऽसाधुत्वापादनेन व्यतिरेकव्यभिचारो दर्शितः । दुष्टत्वं दुष्टतानियामकत्वं न स्यादिति । तथा च संख्यायास्तत्साधारणधर्मत्वाभावेऽयमेव दोष इति मुख्यामुख्यसाधारणविशेष्यतासंबन्धेन तस्यास्तत्र कारणत्वमुचितमिति भावः । विशेष्यतायां मुख्यत्वानिवेशे हंस्यामपि संख्यान्वयप्रसङ्गो यो दत्तस्तस्य तत्र मुख्येति न वक्तव्यमित्याक्षिप्तेष्टापत्त्या वारणं, विशेष्यतायां मुख्यत्वनिवेशे व्यभिचारापादनं, प्रत्युतोपमाने संख्यान्वयानङ्गीकारे दुष्टत्वं न स्यादित्यनिष्टापादनं च कृत्वा मुल्यामुख्यसाधारणविशेष्यतासंबन्धेन तस्यास्तत्कारणत्वं स्थापितम् ।। . अधुना तेनैव संबन्धेन तत्कारणत्वे मानान्तरमाह-संख्याकालातिरिक्ताख्यातार्थो हीत्यादिना । भावनान्वयिनि संख्यान्वय इति नियमाचेति । कर्तृप्रत्ययस्थले कर्ता भावनान्वयी, कर्मप्रत्ययस्थले कर्म भावनान्वयि, उभयोरप्युभयत्र प्रथमान्तपदोपात्तत्वम्, इति विशेष्यतासंबन्धेनैव तस्यास्तत्कारणत्वं लभ्यते नतु मुख्यविशेष्यतयापि, भावनान्वयिमात्र एव संख्यान्वयाभिधानात् । तथा च पश्य मृगो धावतीत्यादौ मृगादेः कर्मतया दर्शनविशेषणत्वेऽपि विशेष्यतया तदुपस्थितेस्तत्र सत्त्वेन न संख्यान्वयानुपपत्तिरिति भावः । __यद्वा ननु विशेष्यतासंबन्धेन तदुपस्थितेस्तत्र कारणत्वे तण्डुलः पचतीत्यादिलाक्षणिकप्रयोगे तदुपस्थितेस्तेन संबन्धेन तण्डुले सत्त्वेन संख्यान्वयापत्तिरित्यत आह-संख्याकालातिरिक्तेत्यादि । भावनान्वयिनि संख्यान्वय इति मूलस्य, यो वस्तुगत्या भावनान्वयी तनिष्ठविशेष्यतासंबन्धेन प्रथमान्तपदजन्योपस्थितिः संख्यान्वयबोधे कारणमित्यत्र तात्पयम् , तथाच तण्डुले भावनान्वयाभावेन तादृशसंबन्धेन तदुपस्थितरभावान्न तत्र संख्यान्वयापत्तिरिति भावः । ननु-निरुक्तसंबन्धेन तदुपस्थितेस्तत्र कारणत्वाङ्गीकारे भूतले घटो नास्तीत्यत्र भूतलवृत्तिघटाभावोऽस्तित्वाश्रय इति बोधेऽभावस्य भावनान्वयित्वेनाभावे संख्यान्वयो वक्तव्यस्तथा सति भूतले घटौ नास्तीत्येतस्यापत्तिः, अस्तीत्येकवचनोपातैकत्वस्याभावेऽबाधात्। न चाभावस्य भावनान्वयित्वेऽपि प्रथमान्तपदोपस्थाप्यत्वाभावान्न तत्रैकत्वान्वयापत्तिरिति वाच्यं, नजुत्तरविभक्तेलृप्तायाः स्मगणेन तदर्थस्यापि प्रथमान्तपदोपस्थाप्यत्वात्, अन्यथा घटो नास्तीत्यत्राप्य
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy