________________
૧૨
वाक्यवादटीका
रतानिरूपितविशेष्यत्वाभिन्नस्वरूपसंसर्गावच्छिन्नप्रतियोगितावच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाभिन्नधनुर्धरत्वनिष्ठप्रकारतानिरूपितविशेव्यत्वाभिन्नतादात्म्यसंसर्गावच्छिन्नधनुर्धरनिष्ठप्रकारतानिरूपितपार्थनिष्ठमुख्यविशेष्यताशाली पार्थान्यनिष्ठभेदप्रतियोगितावच्छेदकधनुर्धरत्वावच्छिन्नाभिन्नः पार्थ इत्यन्वयबोधो निष्पन्नः । एवं चैत्र एव पचतीत्यादावपि चैत्रान्यनिष्ठभेदप्रतियोगितावच्छेदकपाकानुकूलकृतिमानेकश्चैत्र इत्यन्वयबोधो द्रष्टव्यः । इत्थं च चैत्रस्य भेदे विशेषणत्वेनेतराविशेषणनिष्ठविशेध्यतासंबन्धेन प्रथमान्तपदजन्योपस्थितस्तत्राभावेनैकत्वान्वयबोधोदयात्तत्र व्यभिचारः स्फुट एवेत्येतदभिप्रेत्याह-एवकारार्थैकदेशे इत्यादि । एकदेशे भेदे । प्रथमान्तपदजन्योपस्थितिविषयत्वाभावात् इतराविशेषणनिष्टाविशेष्यतासंबन्धेन प्रथमान्तपदजन्योपस्थितेरभावात् । कथं चैत्रस्य भेदे विशेषणत्वमित्यत आह-चैत्रान्यो न पचतीत्यादि । चैत्रान्यनिष्ठभेद-प्रतियोगितावच्छेदक-पाकानुकूलकृति-मानेकश्चैत्र इत्येव चैत्रान्यो न पचति चैत्रः पचतीत्यस्यार्थः, न तु चैत्रान्यः पाकानुकूलकृत्यभाववान्पाकानुकूलकृतिमांश्चैत्र इति, नातो विशेष्यभेदेन वाक्यभेदापत्तिः । तदर्थात् चैत्र एव पचतीत्यस्यात् । मुख्यविशेष्यतासंबन्धेन तदुपस्थितेस्तत्र कारणत्वानङ्गीकारे केन संबन्धेन तत्र तस्याः कारणत्वमित्याशङ्कय मुख्यामुख्यसाधारणविशेष्यतासंबन्धेन तस्याः कारणत्वमित्याह-तथा चेति । . . अन्यथा मुख्यविशेष्यतासंबन्धेन तदुपस्थितेः कारणत्वाङ्गीकारे। 'हंसीव कृष्ण ते कीर्तिः ' इत्यत्रैकत्वाश्रयहंसीनिरूपितसादृश्याश्रयत्वसंबन्धिनी स्वर्गङ्गाकर्मकावगाहनाश्रयत्ववतीत्यन्वयबोधस्तथा च संख्यावगाहनाश्रयत्वयोरुपमानोपमेयसाधारणधर्मत्वेन हंसीव कृष्णेत्यादेः साधुत्वं, हंस्यां संख्यान्वयानङ्गीकारेऽसाधुत्वम् । इत्थं चोपमानोपमेयनिष्ठलिङ्गवचनभेदेऽसत्यपि तद्वाक्यासाधुत्वेन व्यतिरेकव्यभिचाराद्वैरस्यापादकलिङ्गवचनभेदस्योपमानोपमेयनिष्ठस्यालङ्कारिकमते दुष्टतानियामकत्ववर्णनं न स्यादित्याह-इत्याद्युपमान इत्यादि दुष्टत्वं न स्यादित्यन्तेन । उपमाने हंस्यां, संख्यान्वयानङ्गीकारे आख्यातार्थसंख्यान्वयानङ्गीकारे, साधारणधर्मत्वानुपपत्तेरिति अङ्गीकर्तुमुचित इत्यत्र हेतुः ।। · ननु संख्यायास्तत्साधारणधर्मत्वाभावे को दोष इत्यत आह-हंसीवे
१ उपमानोपमेयवाचकपदयोलिङ्गवचनभेदे असाधुत्वमित्यन्वयतः, भेदाभावे असाधुत्वाभाव इति व्यतिरेकतश्च सहचारो बोध्यः ।