________________
वाक्यदीपिका ध्याहारः । साधुत्वापत्तरिति । धावति मृगा इत्याख्यातोपस्थाप्यसंख्याया अविवक्षितत्वेनैकवचनोपस्थाप्यैकत्वस्य मृगेष्वन्वयाभावेन तादृशवाक्यस्यायोग्यत्वाभावादित्यर्थः । मुख्यविशेष्यतासंबन्धेन प्रथमान्तपदजन्योपस्थितिविशेष्यतासंबन्धेनाख्यातार्थसंख्यान्वयबोधं प्रति हेतुरिति न स्वीक्रियते, येन मृगादेः कर्मतया दृशिक्रियायां विशेषणत्वेन यत्र तादृशसंबन्धेन तदुपस्थितेरभावात्संख्यान्वयो न स्यात्, तदनन्वये धावति मृगा इत्यादेरापत्तिश्च स्यात् । अपि तु विशेष्यतासंबन्धेन तदुपस्थितिस्तदन्वयबोधे कारणमित्यभ्युपगम्यते । तथा च विशेष्यता संबन्धेन तदुपस्थितेम॒गे सत्त्वेन न पश्य मृगो धावतीत्यादावेकत्वान्वयानुपपत्तिः, धावतीत्येकवचनोपात्तस्यैकत्वस्य विवक्षितस्य मृगेषु बाधेन न वा धावति मृगा इत्यादेरयोग्यस्य योग्यत्वापत्तिरित्यभिप्रायेण समाधत्ते । तन्न तत्र मुख्येतिन वक्तव्यमिति। ननु निरुक्तकार्यकारणभावे विशेष्यतायां मुख्यत्वानिवेशे 'हंसीव धवला' इत्यत्र हंस्यामपि संख्यान्वयप्रसङ्ग इत्युक्तमिदानी कथमुच्यते तत्र मुख्येति न वक्तव्यमितीतिचेन्न, तत्र हंस्यां संख्यान्वयस्वीकारे इष्टापत्ते: । चैत्र एव पचतीत्यादौ विशेष्यतायां मुख्यत्वनिवेशे व्यभिचाराच । तथा च मुख्यति न वक्तव्यमिति समीचीनमेवोक्तमित्यभिप्रायेणाह-चैत्र एव पचतीत्यादौ व्यभिचारादिति । मुख्यविशेप्यतासंबन्धेन तदुपस्थितेस्तत्र हेतुत्वस्वीकारे तत्र प्रतिज्ञातव्यभिचारं स्फुटयति-अन्ययोगव्यवच्छेदेत्यादिना । तत्रान्यस्मिन्योगस्तादात्म्य तस्य व्यवच्छेदोऽत्यन्ताभावः। यत्र यस्य तादात्म्याभावस्तत्र तद्भेद् इति नियमेन भेदवन्निष्ठभेद इति प्राप्तम् । तथा च भेद आश्रयो भेदः प्रतियोगितावच्छेदकत्वमेवकारार्थः । यथा 'पार्थ एव धनुर्धरः ' इत्यादौ पार्थशब्दोत्तरैवकारार्थो भेद आश्रयो भेदः प्रतियोगितावच्छेदकत्वं, तत्र प्रतियोगितासंबन्धेन पार्थस्य भेदे, विशेषणताविशेषसंबन्धेन भेदस्याश्रये, आधेयतासंबन्धनाश्रयस्य भेदे, स्वनिरूपितत्वसंबन्धन भेदस्य प्रतियोगित्वे, स्वरूपसंबन्धन प्रतियोगितावच्छेदकत्वस्य विशेषणतावच्छेदके धनुर्धरत्वे, तादात्म्यसंबन्धेन धनुर्धरत्वावच्छिन्नस्य पार्थेऽन्वयः । तथाच प्रतियोगित्वसंसर्गावच्छिन्नपार्थनिष्ठप्रकारतानिरूपितविशेष्यत्वाभिन्नविशेषणताविशेषसंसर्गावछिन्नभेदनिष्ठप्रकारतानिरूपितविशेष्यत्वाभिन्नाधेयतासंसर्गावच्छिन्नाश्रयनिष्ठप्रकारतानिरूपितविशेष्यत्वाभिन्नस्वनिरूपितत्वसंसविच्छिन्नभेदनिष्ठप्रकारतानिरूपितविशेष्यत्वाभिन्न प्रतियोगित्वनिष्ठप्रका.