SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ वाक्यवादीका वनकर्तृमृगकर्मकदर्शनाश्रयस्त्वमिति बोधो जायत इत्युक्तम् । शृणु गर्जति मेघ इत्यादावपि गर्जनाश्रयत्वनिष्ठस्वरूपसंबन्धावच्छिन्नप्रकारतानिरूपितमेघनिष्ठविशेष्यताभिन्नकर्मतासंबन्धावच्छिन्नप्रकरतानिरूपितविशेष्यत्वाभिन्नस्वविशिष्टकर्मत्वसंबन्धावच्छिन्नगर्जननिष्ठप्रकारतानिरूपितविशेष्यत्वाभिन्नस्वनिरूपितत्वसंबन्धावच्छिन्नश्रु-धात्वर्थनिष्ठप्रकारतानिरूपितविशेष्यत्वाभिन्नस्वरूपसंबन्धावच्छिन्नाश्रयत्वनिष्ठप्रकारतानिरूपितत्वंपदार्थनिष्ठमुख्यविशेष्यताशाली बोधो गर्जनविशिष्टमेघकर्मक श्रवणाश्रयस्त्वमिति, निध्वानाश्रयशङ्खोऽतीतोत्पत्तिकश्रवणकर्मत्वाश्रय इत्याद्यन्वयबोधः स्वीकर्तव्यः । स च ' वह्निना सिञ्चेत् ' इत्यादौ सेके वह्निकरणकत्वान्वय इव बाधितः, श्रवणे स्वविशिष्टमेघविषयकत्वबाधेन गर्जनस्य धर्मिपारतत्र्येण श्रवणेऽन्वयासंभवादिति चेन्न । साक्षात्संबन्धेन गर्जनविशिष्टमेघस्य श्रु-धात्वर्थकर्मत्वबाधेऽपि स्वाश्रयगर्जनवत्त्वसंबन्धेन मेघे कर्मत्वान्वये बाधकाभाव इति गर्जनविशिष्टं मेघं धर्मिणं द्वारीकृत्य तद्विशेषणगर्जनस्य निरुक्तसंबन्धेन श्रुधात्वर्थेऽन्वयसंभवात् । ननु शृणु गर्जति मेघ इत्यादौ तार्किकमतेऽपि सविशेषणे हीति न्यायेन योग्यत्वव्यवस्थापनेऽपि मेघादौ गर्जतीत्येकवचनोपस्थाप्यसंख्याया अन्वयो न स्यात् । पचति चैत्र इत्यादावाख्यातार्थकृतिभूतभावनामुख्यविशेष्य एव चैत्रे तदुपस्थाप्यसंख्यान्वयस्य दृष्टतया गर्जनाश्रयमेघस्येह श्रवणक्रियायां विशेषणतया मुख्यविशेष्यत्वाभावात् । इतराविशेषणस्यैव मुख्यविशेष्यत्वात् । अन्यथा चैत्रो मैत्र इव गच्छतीत्यत्र मैत्रनिरूपितसादृश्याश्रयचैत्रो गमनानुकूलकृतिमानेक इत्यन्वयबोधे आख्यातोपात्तसंख्यायाश्चैत्र इव मैत्रेऽप्यन्वयः स्यात्, प्रथमान्तपदोपस्थाप्यत्वस्य तत्र सत्त्वात् । न चेतराविशेषणनिष्ठविशेष्यतासंबन्धेन प्रथमान्तपदजन्योपस्थितिविशेष्यतासंबन्धेनाख्यातार्थसंख्यान्वयबोधं प्रति हेतुरिति स्वीकारेण प्रकृते मैत्रे निरुक्तसंबन्धेन तादृशोपस्थितेरभावान्न तत्र तदन्वयापत्तिरिति वाच्यम् । शृणु गर्जति इत्यादावपि मेघादौ तदुपस्थितनिरुक्तसंबन्धेनाभावेन तदुपात्तसंख्यानन्वयापत्तेर्दुरित्वात् । न च देवदत्तेन सुप्यत इत्येकवचनोपात्तैकत्वस्योपस्थितस्याप्यन्वयाभाववद् गर्जतीत्येकवचनोपस्थाप्यैकत्वान्वयो मेघे नेष्यत एवाविवक्षितत्वादिति वाच्यम्, 'शृणु गर्जति मेघाः' इत्यादिप्रयोगापत्तेरित्याशयवाननुवदति-यत्त्वित्यादि साधुत्वापत्तेरित्यन्तेन । कीर्तिरित्यत्र भातीति क्रिया
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy