SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ वाक्यदीपिका ननु शृणु गर्जति मेघ इत्यादौ मेघकर्तृकगर्जनस्य साक्षात्कर्मतासंबन्धेन श्रु-धात्वर्थान्वयसंभवेन प्रथमतो गर्जनस्य मेघेऽन्वयमङ्गीकृत्य तहारा धात्वर्थान्वयस्वीकारः 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इति न्यायेन दूरतस्त्याज्य एवेत्यत आह-शङ्खाः श्रूयन्त इत्यादि । मायमानाः शङ्खाः श्रूयन्त इत्यर्थः । भेर्यः श्रूयन्ते शब्दायमाना भेर्यः श्रूयन्त इत्यर्थः । तथा च ध्मानविशिष्टाः शङ्खाः श्रवणकर्मत्वाश्रयीभूताः, मानविशिष्टशङ्खाभिन्नबहुत्वावच्छिन्नकर्मवृत्तिश्रवणानुकूलो व्यापारः; शब्दविशिष्टभेर्यः श्रवणकर्मत्वाश्रयीभूताः, शब्दविशिष्टभेर्यभिन्नबहुत्वावच्छिन्नकर्मवृत्तिश्रवणानुकूलो व्यापार इत्याद्यन्वयबोधस्वीकारे सविशेषणे हाति न्यायेन शङ्खविशेषणीभूतशब्दे श्रु-धात्वर्थकर्मत्वस्यान्वयस्वीकारस्यावश्यकतया शृणु गर्जति मेघ इत्यादावप्युक्तन्यायेनान्वयबोधस्वीकारे बाधकाभाव इति भावः । ननु शङ्खाः श्रूयन्त इत्यादौ शङ्खादिपदस्य थायमानशङ्खादी लक्षणाया आवश्यकत्वे शङ्खादिशब्दे शङ्खादिपदस्य लक्षणास्वीकारेणापि तत्र साक्षाच्छू धात्वर्थकर्मत्वान्वयसंभवेन सविशेषणे हीतिन्यायो नावतरतीति कथं तश्यायेन प्रकृते निर्वाह इत्यत आहनिध्वानमधूयत पाञ्चजन्य इत्यादि । तत्र हि निरुक्तविशेषणविशिष्टनिवानाश्रयीभूतपाञ्चजन्याभिन्नैककर्मवृत्त्यतीतोत्पत्तिकश्रवणानुकूलो व्यापार इति, जनकर्तृकातीतोत्पत्तिकश्रवणकर्मत्वाश्रयीभूतो निरुक्तविशेषणविशिष्टनिध्वानाश्रयीभूतः पाञ्चजन्यः, इत्येवंप्रकारेणान्वयबोधस्यावश्यकतया सविशेषणे पाञ्चजन्ये श्रवणकर्मत्वबाधेन तद्विशेषणे निवाने तत्कर्मत्वपर्यवसानमिति सविशेषणे हीति न्यायस्वीकार आवश्यक इति, शृणु गर्जति मेघ इत्यादावपि प्रथमान्तार्थमुख्यविशेष्यकबोधस्वीकारेऽपि तन्यायेन निर्वाह इति भावः । । ननु पश्य मृगो धावतीत्यत्र धावनानुकूलकृतिनिष्ठ-समवायसंबन्धावच्छिन्नप्रकारता-निरूपितविशेष्यत्वाभिन्नमृगनिष्ठ-कर्मतासंबन्धावच्छिनप्रकारता-निरूपितविशेष्यल्वाभिन्न-स्वविशिष्टकर्मत्वसंबन्धावच्छिन्नधावननिष्ठप्रकारतानिरूपितविशेष्यत्वा-ऽभिन्नदृश्यर्थनिष्ठस्वनिरूपितत्वसंबन्धावच्छिन्नप्रकारता-निरूपितविशेष्यत्वाभिन्नाश्रयत्वनिष्ठ-स्वरूपसंबन्धावच्छिन्नप्रकारता-निरूपितयुष्मत्पदार्थनिष्ठमुख्यविशेष्यताशाली धा १ स्वं धावनम् । अनेन धावनस्य धर्मिपारतन्त्र्येण दृश्यर्थे भानमुक्तम् ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy