SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ १८ वाक्यवादीका इति न्यायेन वंशमणिदूषणं न सम्यगेवेत्यभिप्रायेणाह-कर्मत्वं प्रथमार्थ इति सम्यगेवोक्तमिति । सम्यक्त्वं चेह वंशमण्युक्तदूषणाग्रस्तत्वमेव, न तु सर्वथा निर्दुष्टत्वं सुविभक्ताविति वक्ष्यमाणदूषणग्रासात् । 'कर्तृकर्मणोः कृति' इति षष्ठयाः कर्मत्वेनानुशासनवत्प्रथमायाः कर्मत्वेनानुशासनाभावात् । अन्यथानुपपत्त्या च स्वारसिकलक्षणाश्रयस्य प्रथमायाः कुत्रचिदशक्तत्वेन स्वीकर्तुमशक्यत्वात् । न च 'प्रातिपदिकार्थलिङ्गपरिमाणवचनमाने प्रथमा' इत्यनुशासनेन प्रथमाविभक्तेरपि लिङ्गादौ शक्तत्वमस्त्येवेति वाच्यम् । तत्सूत्रस्य प्रथमाव्यजकत्वमात्राभिप्रायकत्वादिति । ननु पश्य मृगो धावतीत्यत्र कर्मत्वसंबन्धन मृगस्य दर्शनक्रियान्वयापेक्षया कर्मत्वस्य प्रथमार्थत्वे को विशेषः । न च नामार्थधात्वर्थयोरभेदातिरिक्तसंबन्धेनान्वयोऽनुपपन्न इति व्युत्पत्तिविरोधवारणं, तस्य तदर्थत्वे विशेष इति वाच्यम् । यादृशसामग्रीसत्त्वे यादृशान्वयबोधोऽनुभवसिद्धस्तादृशसामग्र्यां तद्बोधस्यापादनीयतया तण्डुलः पचतीति समभिव्याहारे तण्डुलकर्मकपाकविशेध्यकान्वयबोधस्याननुभूतत्वेनातिप्रसङ्गाभावात् । पश्य मृगो धावतीत्यत्र मृगकर्मकदर्शनविशेष्यकान्वयबोधस्यानुभवसिद्धत्वेन कर्मतासंबन्धन मृगप्रकारकान्वयबोध एव स्वीकरणीय इति तादृशव्युत्पत्त्यस्वीकारेऽपि दोषाभावादित्यत आह-पदार्थत्व इति । निरुक्तस्थले मृगकर्मकदर्शनविशेष्यकान्वयबोधस्य मृगकर्मत्वप्रकारकदर्शनविशेष्यकत्वेनाप्युपपत्तौ प्रथमान्तार्थस्य कर्मतासंबन्धेन दर्शनेऽन्वयस्य व्युत्पत्तिविरुद्धस्यापि स्वीकारासंभवादिति भावः । ननु विशेषानुशासनं विनान्यविभक्त्यर्थेऽन्यविभक्तिलक्षणास्वीकारे तण्डुलं पचतीति(वत्)तण्डुलः पचतीत्यत्रापि लक्षणया प्रथमायाः कर्मत्वार्थकत्वसंभवेन तण्डुलकर्मत्वप्रकारकपाकविशेष्यकान्वयबोधः संभवतीति । तथा च भारतस्य श्रवणं व्यासस्य कृतिरित्यत्रापि कर्तृकर्मणोः कृतीत्यनुशासनं विनापि भारतकर्मक श्रवणं व्यासकर्तृककृतिरिति कर्मत्वादिप्रकारकान्वयबोधानुरोधेन षष्ठयाःकर्मत्वाद्यर्थे लक्षणासंभवेनानुशासनं व्यर्थ स्यादित्यभिप्रायेणाह-वस्तुतस्तु विभक्ताविति । नन्वन्वयानुरोधेनैव विभक्तेलक्षणा, कर्तृकर्मणोः कृतात्यनुशासनं तु द्वितीयातृतीययोनिवृत्त्यर्थमिति न वैयर्थ्यमित्यत आह-किं चेति । शक्याभावादिति । प्रातिपदिकार्थमात्र इत्यादिष्वर्थेषु निरुक्तसूत्रस्य प्रातिपदिकादिकस्य तात्पर्यग्राहकतया प्रथमाया अर्थविशेषाशक्ततया शक्यसंबन्धरूपलक्षणा न संभवाति भावः ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy