________________
वाक्यदीपिका
इत्युक्तं, न तु गर्जनादेरेव श्रु-धात्वर्थकर्मत्वाभिप्रायेण । तथा सति वैयाकरणमतप्रवेशापत्तेः । ननु मेघगर्जनं शृणु, मृगधावनं पश्येत्यादिप्रयोगेऽपि च गर्जनादेः श्रावणकर्मत्वं, तत्कर्मीभूतगर्जनाश्रयतया मेघस्य परंपरया श्रावणकर्मत्वं विवक्षितं संभवति, एवं धावनस्य मृगादेश्व दर्शनविषयत्वं संभवतीति, शृणु गर्जति मेघः पश्य मृगो धावतीत्येवंविधवक्रप्रयोगाश्रयणमृजुबुद्धीनां न शोभावहमिति चेन्न । साहित्यशास्त्रवासनावासितहृदयानां कुटिलमार्गगमनेनैव चमत्कारोदयदर्शनात् । . .
ननु पश्य मृगो धावतीत्यत्र धात्वर्थनामार्थयोरभेदातिरिक्तसंबन्धेनान्वयबोधस्य तण्डुलः पचतीत्यादिप्रयोगप्रामाण्यवारणायाव्युत्पन्नतया मृगस्य कर्मतासंबन्धेन दर्शनेऽन्वयो न संभवतीत्याशङ्कय केनचिन्मृगपदोत्तरप्रथमायाः कर्मत्वमर्थस्तत्र मृगस्याधेयतासंबन्धेनान्वयः, कर्मत्वस्य निरूपकत्वसंबन्धेन दर्शनेऽन्वय इत्युक्तम् ; तद्दूषयितुं शृणु गर्जति मेघ इत्यादौ श्रवणे मेघपदोत्तरप्रथमार्थकर्मत्वस्यायोग्यतयान्वयासंभवादित्युपाध्यायवंशमण्युक्तमनुवदति-यत्त्विति । अपास्तमित्यत्र हेतुभूतस्यैतेनेत्यस्य श्रवणे मेषकर्मत्वाभावनोत व्याख्यानभूतं द्रष्टव्यम् । खले कपोतन्यायेन राजपुरुषप्रवेशन्यायेन वा शाब्दबोधाभ्युपगमेन गर्जनस्याश्रयत्वे आश्रयत्वस्य मेघे मेघस्य कर्मत्वे कर्मत्वस्य च श्रुधात्वर्थे अन्वयेन गर्जनाश्रयत्वविशिष्टमेघस्य कर्मत्वे तादृशमेघनिष्ठकर्मत्वस्य च श्रु-धात्वर्थेऽन्वये वा सविशेषणे हीति न्यायेन विशेषणांश एव विवक्षाभ्युपगमेन, गौणकर्मत्वस्य मेघेऽप्यबाधितत्वादित्याशयेन दूषयति-तन्नेति । कर्मत्वबाधेऽपीति गर्जनविशिष्टमेघे मुख्यकर्मत्वबाधेऽपीत्यर्थः । गर्जनकर्मत्वस्याप्यन्वयसंभवादिति गर्जनविशिष्टमेघस्य श्रु-धात्वर्थगौणकर्मत्वमपि गर्जनस्य तत्कर्मत्वविवक्षायामेवोपपद्यते इति गर्जनकर्मत्वस्य श्रु-धात्वर्थे बोधसंभवादित्यर्थः । श्रावणे मेघकर्मत्वबाधेऽपि गर्जनकर्मत्वस्यान्वयसंभवादिति यथाश्रुते, प्रथमार्थकर्मत्वे गर्जनस्यान्वयो न तु गर्जनविशिष्टमेघस्येत्यर्थों भासते स चानुपपन्नः, प्रथमार्थे प्रातिपदिकार्थम्य मेघस्यैवान्वयस्य युक्ततया गर्जनस्याप्रातिपदिकार्थत्वेनान्वयायोग्यत्वात प्रत्ययानामिति व्युत्पत्तेः । एवं च मृगो धावतीत्यत्र धात्वर्थनामार्थयोरभेदातिरिक्तकर्मत्वरूपसंबन्धेनान्वयानुपपत्त्या मृगपदोत्तरं प्रथमायाः कर्मत्वार्थकत्वस्वीकरणं शृणु गर्जति मेघ इत्यादौ मेघादेः श्रु-धात्वर्थ कर्मत्वासंभवेन न समीचीनमिति 'भक्षितेऽपि लशुने न शान्तो व्याधिः'