SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ १६ वाक्यवादीका ' घटो नित्यः' इत्याद्यभियुक्तप्रयोगाभावात् । एवं च सविशेषणे हीत्यादिन्यायस्य विशेष्ये विधिनिषेधयोः साक्षात्संबन्धेन बाधे सति विशेषणे साक्षात्संबन्धेन, विशेष्ये परंपरासंबन्धेन पर्यवसानमित्यर्थः । इत्थं च शृणु गर्जति मेघ इत्यादावपि गर्जनाश्रयमेघकर्मकश्रावणाश्रयस्त्वामति बोधस्वकारे मेघस्य साक्षात्संबन्धेन श्रवणेऽन्वयासंभवेन गर्जने विशेषणे साक्षात्संबन्धेन श्रावणकर्मत्वं, गर्जनविशिष्टमेघे विशेष्ये स्वाश्रयाश्रयत्वसंबन्धेनेति गर्जनविशिष्टमेघस्य कर्मत्व संबन्धेन श्रावणेऽन्वयसंभवेन नायोग्यता, न वा गर्जनकर्मकश्रावणानन्वयापत्तिः । नन्वेवमपि स्वाभिन्नाश्रयत्वसंबन्धेन ध्वंसप्रतियोगिनो नामार्थस्य स्वर्गिणि नामार्थेऽन्वयस्वीकारे नामार्थयोरिति व्युत्पत्तिभङ्ग इति चेन्न । निपातस्थल इवात्रापि व्युत्पत्तिसंकोचात् । न च निपातस्थले व्युत्पत्तिसंकोच उभयवादिसिद्धो नात्र तथेति वाच्यम् । गत्यन्तराभावेनैतत्संकोचस्याप्युभयवादिसिद्धत्वात् । न च सविशेषणे हीति न्यायस्य, स्वर्गी ध्वस्त इत्यादौ धर्मवाचकशब्दस्य धर्ममात्रतात्पर्यग्राहकत्वेन, स्वर्गो ध्वंसप्रतियोगीत्यन्वयबोधस्वीकारेण, नामार्थयोरिति व्युत्पत्तेः पदार्थः पदार्थेनेति व्युत्पत्तेश्वासंकोचसंभवे, संकोचाश्रयणेन परंपरासंबन्धेनान्वयबोधस्वीकरणमन्याय्यमिति वाच्यम् । स्वर्गी ध्वस्त इत्यादौ धर्मग्रहणवैयर्थ्यापत्तेः । तथा च स्वाभिन्नाश्रयत्वसंबन्धेन ध्वंसप्रतियोगिनो धर्मिण्यन्वयविवक्षास्थले स्वर्गी ध्वस्त इति, स्वर्गमात्रे ध्वंसप्रतियोग्यन्वयविवक्षास्थले 'च स्वर्गो ध्वस्त इति प्रयोगः लौकिकानां शास्त्रकाराणां च विवक्षाभेदेन । अथ शब्दो निरूप्यते श्रुतोऽयमर्थः शङ्खः श्रूयते इत्यादिप्रयोगदर्शनात् तत्र शब्दो निरूपणविषय इत्यन्वयबोधे निरूपणस्य ज्ञानानुकूलव्यापारतया तस्य निर्विषयत्वेऽपि तज्जन्यं ज्ञानविषयत्वमादायैव शब्दे निरूपणविषयत्वं स्वीक्रियते श्रुतोऽयमर्थ इत्यत्रार्थे श्रु-धात्वर्थकर्मत्वाभावेऽपि श्रावणविषयशब्दजन्यज्ञानविषयत्वमादायैवार्थे श्रु धात्वर्थकर्मता, शङ्खः श्रूयत इत्यत्र शङ्खस्य तत्कर्मत्वाभावेऽपि शङ्खध्मानस्य तत्कर्मतया तद्वच्छेदकशङ्खस्यापि तत्कर्मत्वमभ्युपगम्यते । इत्थं च शृणु गर्जति मेघ इत्यादौ गर्जनविशिष्टमेघस्यापि श्रावण विषयभूतगर्जनाश्रयतया श्राव कर्मत्वाभ्युपगमे गर्जनस्य मुख्यकर्मत्वं मेघस्य तु गौणकर्मत्वमिति विवक्षयैतादृशप्रयोगे, गर्जनादेरेव श्रावणविषयत्वरूपविवक्षितार्थलाभे बाधकाभाव इत्यभिप्रेत्य 'विशेषणेषु गर्जनगानाभावेषु श्रवणदर्शनान्वयसंभवात् '
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy