SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ वाक्यदीपिका १५ नान्वेति नियमस्य व्यभिचारो दुर्वार एवेति चेन्न । चैत्रस्य गुरुकुलमित्यादौ व्यभिचारवारणायासत्यामाकाङ्कायामिति विशेषणवत्स्वर्गी ध्वस्त इत्यादावेकदेशान्वयानुरोधेनासत्येकदेशान्वयप्रयोजकानादितात्पर्य इति विशेषणस्य पदार्थः पदार्थेनेत्यत्रावश्यकत्वात् । नन्वत्र बोधः कीदृशः ध्वंसप्रतियोगिस्वर्गवान्पुरुष इत्येतादृश इति चेत्स्वर्गशालिन्यपि स्वर्गी ध्वस्त इत्यादिप्रयोगापत्तेः । वर्तमानध्वंसप्रतियोग्युत्पत्तिकस्वर्गवानित्यन्वयबोध इति चेत्स्वर्गोत्पत्तिद्वितीयक्षणेऽपि स्वर्गी ध्वस्त इति प्रयोगापत्तेः । पुरुषवृत्तिः स्वर्गों वर्तमानध्वंसप्रतियोगीति बोध इति चेत्पदार्थोपस्थितावुपसर्जनस्य विशेष्यत्वे विशेष्यस्य च विशेषणत्वे घटो नित्य इत्यादेरपि घटवृत्तिघटत्वं नित्यमित्याद्यन्वयबोधसंभवेन प्रामाणिकत्वापत्तेः । स्वर्गविशिष्टो ध्वंसप्रतियोर्गाति चेद्विशेष्ये ध्वंसप्रतियोगित्वस्य बाधेनाप्रामाण्यापत्तेः । विशिष्टवैशिष्टयबोधस्थले विशेषणतावच्छेदकस्य परंपरासंबन्धेन विशेष्यान्वयवद्विशिष्टे वैशिष्ट्यमिति बोधे वर्तमानध्वंसप्रतियोगिनो विशेषणे साक्षात्संबन्धेन विशेष्ये परंपरासंबन्धेनान्वये बाधकाभावान्नायोग्यसेति चेत्स एव संबन्धो न ज्ञायते येन विशेष्येऽन्वयः स्यात् । अत्रोच्यते-स्वाभिन्नाश्रयत्वं विशेष्यसंबन्धः । न च घटो नित्य इत्यादेरपि स्वाभिन्नाश्रयत्वसंबन्धेन नित्यस्यापि घटेऽन्वये बाधकाभावेन प्रामाण्यं स्यादिति वाच्यम् । 'नहि निमित्तमस्तीत्यारोप आरोपे सति निमित्तानुसरणम्' इति न्यायेन प्रामाणिक-'स्वर्गी ध्वस्तः' इत्यादिप्रयोगनिर्वाहमात्रस्यैवाश्रयणीयत्वात् । अन्यथा लोहितः स्फटिक इत्यादौ लौहित्यस्य स्फटिके परंपरासंबन्धेन भानवत्स्वाश्रयसंयोगित्वेन तस्याकाशे सत्त्वेन लोहित आकाश इत्यादेरपि प्रामाण्यापत्तिः। अतः स्फटिकत्वविशिष्टानुयोगिकत्वविशिष्टपरंपरायाः लौहित्यनिरूपितसंसर्गत्वं स्वीक्रियते न त्वाकाशाद्यनुयोगिकत्वविशिष्टपरंपरायाः, लोहित आकाश इत्याद्यभियुक्तप्रयोगाभावात् । तथा च प्रकृते पुरुषानुयोगिकत्वविशिष्टस्वाभिन्नाश्रयत्वस्य ध्वंसप्रतियोगिनिरूपितसंसर्गत्वं 'स्वर्गी ध्वस्तः' इत्याद्यभियुक्तप्रयोगात्, न तु घटाद्यनुयोगिकत्वविशिष्टस्वाभिन्नाश्रयत्वस्य नित्यनिरूपितसंसर्गत्वं १ अत्र शिखिपदार्थे शिखाविशिष्टे ध्वस्तपदार्थस्य वर्तमानध्वंसप्रतियोगिनः वैशिष्टयं बुध्यते । तत्र विशेषणे शिखायां ध्वस्तपदार्थस्य साक्षात्संबन्धेन अभेदेनान्वयः; विशेष्ये शिखाविशिष्टे परंपरया स्वाभिन्नाश्रयत्वसंबन्धेन । तत्र स्वं ध्वस्तपदार्थः वर्तमानध्वंसप्रतियोगी, स्वाभिमा शिखा, तदाश्रयत्वस्य शिखाविशिष्टे देवदत्तादौ सत्त्वान्न काचिदनुपपत्तिरित्यर्थः ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy