________________
वाक्यवादटीका
प्रत्ययार्थध्वंसप्रतियोगिनः शिखिनः स्वर्गिणश्चाविनाशेन तत्रान्वयासंभवेन शिखास्वर्गयोस्तदन्वयस्वीकारात् । नच ध्वंसप्रतियोगिनः प्रथमान्तार्थस्य शिखायां स्वर्गे चापदार्थे कथमन्वयः, यत्किंचित्पदार्थनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेनान्वयबोधं प्रति पदजन्यपदार्थोपस्थितिर्मुख्यविशेष्यतासंबन्धेन कारणमित्येतादृशार्थक-‘पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन'इति न्यायादिति वाच्यम् । एकदेशान्वयस्यापि कचिद्दष्टत्वात् । ननु क दृष्टमितिचेत्-शरैः शातितपत्रश्चैत्रस्य गुरुकुलमित्यादौ दर्शनात् । ननु घटो नित्यः पशुरपशुरित्यादावपि नित्यत्वाश्रयघटत्ववान् , पशुभिन्नपशुत्ववानित्याद्यन्वयबोधे बाधकाभावेन तेषामपि प्रामाण्यं स्यादिति चेन्न । शरैरित्यादेः साकाङ्कत्वादेकदेशान्वयसंभवेऽपि घटो नित्य इत्यादेनित्यसाकाङ्कवाभावेनाप्रामाण्यात् । ननु स्वर्गी ध्वस्त इत्यादौ नित्यसाकाङ्क्षत्वाभावाकथमेकदेशान्वय इति चेन्न । अन्वयबोधस्य तात्पर्याधीनत्वेन प्रकृते एकदेशान्वयतात्पर्यस्य, प्रामाण्यान्यथानुपपत्त्या स्वीकारात् । न च घटो नित्य इत्यादेरपि तात्पर्यसद्भावे एकदेशान्वयसंभवे . प्रामाण्यापत्तिरिति वाच्यम् । सति तात्पर्ये इष्टत्वात् । अत एव हि यत्र पदार्थेऽन्वयासंभवस्तत्र भावप्रधाननिर्देशपरतयापि निर्वाहो ग्रन्थकृतां संगच्छते, सर्वतो बलवती ह्यन्यथानुपपत्तिरिति न्यायात् । नच शिखी ध्वस्त इत्यादौ शिख्यादिपदस्य शिखामात्रलाक्षणिकत्वेन शिखा ध्वंसप्रतियोग्यभिन्नत्यन्वयबोधस्वीकारे । शिखा ध्वस्ता ' ' स्वों ध्वस्त' इत्यादिवाचकशब्दप्रयोगस्यैव 'स्वायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयुमहे' इति न्यायेन संभव इति वाच्यम् । लाक्षणिकमात्रस्यैव विलयप्रसङ्गात् । न च लाक्षणिकं द्विविधं निरूढं प्रयोजनक्छ । निरूढं कुशलादि । प्रयोजनवद्गजायां घोष इत्यादि । तत्र 'स्वर्गी ध्वस्तः' इत्यादिकं न प्रयोजनवत् , प्रयोजनस्य शैत्यपावनत्वादिप्रतीरिवात्र प्रयोजनप्रतीतेरेभावात्; नापि निरूढमनादितात्पर्यकल्पनागौरवापत्तोरति वाच्यम् । स्वर्गी ध्वस्त इत्यादिप्रामाणिकप्रयोगदर्शनेनानादितात्पर्यकल्पनायाः प्रामाणिकत्वेन गौरवस्यादोषत्वात् । ननु शिख्यादिपदस्य शिखामात्रलक्षणास्वीकारे नत्यदजन्यपदार्थोपस्थितिमुख्यविशेष्यत्वेन शिखाया विशेषणत्वाभावात् सविशेषणे हीति न्यायानुसारेणोदाहरणत्वं तत्र न संगतमिति शिख्यादिपदस्य शिखादिविशिष्टधर्मिबोधकत्वमित्येव स्वीकरणीयम् । तथा च पदार्थैकदेशीभूतायां शिखायां ध्वंसप्रतियोगिरूपपदार्थान्वये पदार्थः पदा