SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ वाक्यदीपिका १३ दिविवक्षाविरोधो धावतीत्यत्र शत्रापत्तिर्मगपदोत्तरं द्वितीयापत्तिरित्येवम:द्यनुपपत्तिः कापि नास्तीति भावः । ___ नन्द तिङन्तार्थमुख्यविशेष्यकबोधजनकपदसमुदायत्वं वाक्यत्वमित्यत्र तात्रिकैस्तिङन्तसमूहः सुबन्तसमूह इत्यादिक्रमेण वाक्यं त्रिधा विभज्य त्रयः काला इत्यादिक्रमेणोदाहृत्य त्रयः काला इत्यत्र तिङन्तपदाभावनाव्याप्तावभिहितायां ज्ञायन्त इति पदाध्याहारेण त्रित्वविशिष्टाभिन्नकालाभिन्नाश्रयवृत्ति(?विषयक)ज्ञानमित्यन्वयबोधस्वीकारेण वैयाकरणोक्तवःक्यलक्षणस्य निर्दुष्टत्वात् 'पश्य मृगो धावति' इत्यत्रापि क्रियायाः कर्मतया दृशिक्रियायामन्वयेऽपि बाधकाभाव इत्याशङ्कय समाधातुमनुवदति-य-- त्त्विति । 'त्रयः काला ज्ञायन्ते' इत्यत्र त्वदुक्तलक्षणस्याव्यात्यभावेऽपि कति काला इति प्रश्ने त्रयः काला इत्युत्तरं दृश्यते । तत्र क्रियाध्याहारे प्रयोजनाभावाल्लक्षणमव्याप्तमित्याशयेनाह—तन्नेति । क्रियाविनिर्मुक्तत्वसंभवादिति । न च कति कालास्त्रयः काला इति प्रश्नोत्तरवाक्ययोरपि भवन्ति ज्ञायन्त इति पदाध्याहारसंभवान्नोक्तलक्षणमव्याप्तमिति वाच्यम् । कति काला इति कालत्वव्याप्यप्रकारविशेषजिज्ञासया प्रश्नकरणे तजिज्ञासानिवर्तनाय प्रकारविशेषज्ञानजनकोत्तरवाक्यस्यैवाकासितत्वेनानाकाङ्कितक्रियाध्याहारस्यानुचितत्वादिति भावः । __ ननु क्रियामुख्यविशेष्यकान्वयबोधमङ्गीकृत्य प्रथमान्तार्थमुख्यविशेष्टकबोधस्वीकारे 'शृणु गर्जति मेघः' नटो गायति शृणु ' 'घटोऽनश्यत्पश्य' इत्यादौ गर्जनाश्रयमेघस्य गानकर्तृनटस्य श्रावणकर्मत्वासंभवात् , वर्त. माननाशप्रतियोग्युत्पत्तिकनाशप्रतियोगिघटस्य दृश्यर्थकर्मत्वासंभवाञ्च कियामुख्यविशेष्यकान्वयबोध एव स्वीकर्तव्य इतीमां शङ्का समाधातुमनुवदति-यत्तु शृण्विति । 'सविशेषणे हि विधिनिषेधौ प्रवर्तमानौ ' इति न्यायेन गर्जनस्य गानस्य नाशस्य च श्रुदृश्यर्थान्वयसंभवेन न काप्यनुपपत्तिरित्याह-तन्न, सविशेषणे हीत्यादिना । न च सविशेषणे हीति न्यायमाश्रित्य समाधानं न संभवति तादृशन्याये प्रमाणाभावादिति वाच्यम् । स्वर्गी ध्वस्तः, शिखी ध्वस्तः, इत्यादि प्रयोगदर्शनाद्धस्त इत्यत्र क्त १ श्रावणं श्रवणेन्द्रियजन्यप्रत्यक्षं श्रुधात्वर्थः । २ वर्तमानः वर्तमानकालिकः यो नाशः ध्वंसः तत्प्रतियोगिनी उत्पत्तिर्यस्य सः वर्तमाननाशप्रतियोग्युत्पत्तिकः अतीतोत्पत्तिक इतियावत् । इदं नाशविशेषणम् । अनेन वर्तमानध्वंसप्रतियोग्युत्पत्तिकत्वमतीतत्वमिति दर्शितम् । अतीतत्वं भूतवमित्यनान्तरम् ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy