________________
१२
वाक्यवादटीका य्यन्वयित्वरूपविशेषणत्वमव्याहतमिति । धावनस्यापि मृगद्वारा दृशिक्रियायां कर्मतासंबन्धेनान्वयित्वमव्याहतमिति न विरोधः । न च भट्टमते सोमेन यजेतेत्यादौ यागस्यैव करणत्वं न तु सोमस्यापि, अन्यथा यागस्य सोमवत्त्वं सोमेन यजेतेति वाक्यान्तरं विना नोपपद्यत इत्याक्षिप्तवाक्येन 'सोमेन यागं भावयेत्' इत्यन्वयबोधस्वीकारोऽनुपपन्नः स्यादिति वाच्यम् ।
'विधाने वानुवादे वा यागः करणमिष्यते' ___ इति वार्तिकेन ‘दन्ना जुहोति' इत्यादिस्थलेऽपि केवलगुणविधौ दधिमता होमेनेष्टं भावयेदिति वाक्यार्थबोधस्य स्वीकारस्तथा चात्रापि दधिमत्त्वं होमे दध्ना जुहोतीति वाक्यान्तरमन्तरेण नोपपद्यत इत्याक्षिप्तवाक्येनान्वयबोधेऽपि वार्तिकोक्तन्यायानुसारेण धात्वर्थस्यैव करणत्वेन ध्यादिकरणकभावनाया अलाभेन श्रूयमाणगुणविध्यनुपपत्तिरिति विशिष्टस्य यागस्य भावनायां करणत्वेनान्वये विशेषणस्यापि करणत्वेनान्वय इत्यङ्गीकारस्यैव युक्तत्वाद्वाक्यान्तरकल्पने गौरवाच्चेति विशेष्यान्वय्यन्वयित्वरूपं विशेषणत्वं मीमांसायां स्पष्टमित्यभिप्रेत्य विशेष्यान्वय्यन्वयित्वरूपं विशेषणत्वमाह-तथा हीत्यादि स्वीकारादित्यन्तेन । तत्रापि उत्तरवाक्येऽपि, परंपरया स्वाश्रयाश्रयत्वसंबन्धेन, अन्वयश्वास्य उष्णीषद्वारा ऋत्विग्रूपविशष्ये । तथा च लौहित्यस्य स्वाश्रयाश्रयत्वसंबन्धेन स्वविशेष्यः ऋत्विक्पदार्थस्तदन्वयिनेष्टसाधनत्वेनान्वय इति फलितम् ।।
ननु धावनाश्रयमृगस्य दृशिक्रियायां कर्मत्वेनान्वये 'पश्य मृगो धावति' इति न ब्रूयाद्धावन्तं मृगं पश्येत्येव ब्रूयादित्याशयेनाक्षिपति-यत्त्विति । नीलं घटं पश्य नीलघटं पश्येति व्याससमासयोः प्रयोगे वक्तृतात्पर्यस्यैव नियामकताया दृष्टत्वात्पश्य मृगो धावति धावन्तं मृगं पश्येति प्रयोगद्वैविध्येऽपि वाक्यार्थभेदस्य नियामकत्वाभावेन वक्तुरिच्छाया एव नियामकत्वमित्याशयेन समाधत्ते तन्न पर्यायेत्यादिना । सति वक्तुस्तात्पर्ये धावन्तं मृगं पश्येत्यत्रापि प्रयोगे इष्टापत्ते तावता पश्य मृगो धावतीत्यस्य हानिनह्यभेदार्थकपर्यायाणां मध्ये एकप्रयोगे सत्यपरः प्रयोगः केनचिनिषेद्धं शक्यत इति भावः । ननु धावन्तं मृगं पश्य, पश्य मृगो धावतीत्यनयोरेकत्र मृगान्वितकर्मत्वस्यापरत्र कर्मत्वसंबन्धेन मृगस्य दर्शनक्रियायामन्वयविवक्षेत्यर्थभेदोऽस्त्येवेति धावनक्रियायाः कर्मत्वेन दृशिक्रियायामन्वयविवक्षायां पश्य मृगो धावतीत्येव प्रयोगः कर्तव्य इत्यत आह-सर्वथेति। न काप्यनुपपत्तिरिति । धावनक्रियाविशिष्टमृगस्य कर्मत्वेनान्वये भाष्यकारा