SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ वाक्यदीपिका ११ कान्वयबोधजनकमाख्यातान्तमिति वचनं भ्रान्तप्रलपितमिति मन्वानः सिद्धान्ती भावप्रधानमाख्यातमित्यस्य संख्याकालातिरिक्ताख्यातार्थस्यैव भावतया तादृशार्थविशेष्यकान्वयबोधं प्रत्याख्यातं कारणमित्येवंविधकार्यकारणभावपरत्वात् 'प्रकृतिप्रत्ययौ सहाथै ब्रूतस्तयोः प्रत्ययार्थः प्रधानम्' इत्यस्य प्रत्ययार्थविशेष्यकशाब्दबोधं प्रति प्रत्ययः कारणमित्येवंविधकार्यकारणभावपरतया यास्कवचनगत जाख्यातपदस्य तिङ्-सुप्साधारणरूपेण प्रत्ययत्वेन पर्यवसानमेव युक्तम् । तण्डुलं पचतीत्यादौ द्वितीयार्थकर्मत्वविशेष्यकबोधस्य प्रत्ययार्थभावनाविशेष्यकबोधस्य च दर्शनादित्याशयवानाह-आख्यातपदमिति । __नन्वेवमप्युत्कटधावनस्यैव दृशिक्रियायां कर्मत्वं फणितात्पर्यविषयीभूतमिति तन्मतविरोध इत्यत आह-वस्तुतस्त्विति। नन्वेवं विशेष्यान्वयिनाऽन्वयित्वरूपं विशेषणत्वं न भाष्यसंमतमपि तूत्कटधावनस्य साक्षादर्शनक्रियायां विशेषणत्वमित्याशङ्कय तादृशविशेषणत्वस्यापि तात्रिकैः स्वीकारादित्याशयेन तात्रिकसंमतिमाह-स्पष्टं चेदमिति । __ पार्थसारथिमिश्रमते विध्यर्थस्येष्टसाधनत्वरूपत्वात् 'यजेत' इत्यादिस्थले याग इष्टसाधनमित्यन्वयबोधस्वीकारेण · दना जुहोति' इत्यत्र गुणविधौ दधीष्टसाधनमित्यन्वयबोधः, धात्वीशेऽनुवादः; होमनिष्ठं दधिकरणकत्वमिष्टसाधनमिति वान्वयबोधः । तथा च प्रकृते 'सोष्णीषा ऋत्विजः प्रचरन्ति ' इत्यत्र प्रचरणाङ्गभूताः सोष्णीषा ऋत्विज इष्टसाधनमित्यन्वयबोधस्वीकारे उष्णीषविशिष्टविजामिष्टसाधनत्वान्वये उष्णीषस्यापीष्टसाधनत्वान्वयः । एवं 'लोहितोष्णीषा' इत्यत्रापि प्रचरणाङ्गभूता लोहितोष्णीषविशिष्टत्विज इष्टसाधनमित्यन्वयबोधस्वीकारे लौहित्यविशिष्टोष्णीपस्य ऋत्विग्द्वारेष्टसाधनतान्वये लौहित्यस्यापीष्टसाधनत्वान्वय इत्यङ्गीकारः। तथा च प्रकृतेऽपि धावनक्रियाविशिष्टमृगस्य दृशिक्रियाकर्मत्वे धावनस्यापि दृशिक्रियाकर्मत्वं भाष्यसंमतमक्षतमेवेति भावः । भट्टमतेऽपि 'सोमेन यजेत' इत्यत्र सोमवता योगेनेष्टं भावयेदिति वाक्यार्थस्वीकारे सोमविशिष्टयागस्य भावनायां करणत्वेनान्वये यागद्वारा सोमस्यापि करणत्वेनान्वये बाधकाभावेन विशेष्यान्वय्यन्वयित्वरूपं विशेषणत्वमेषामपीष्टमेवेत्युदाहृतस्थले द्वयोरपि सोष्णीषैः ऋत्विग्भिः प्रचरणं भावयेल्लोहितोष्णीषैप्रविग्भिः प्रचरणं भावयेदित्यन्वयबोधस्वीकारेण विशेषणीभूतोष्णीषस्य ऋत्विग्द्वारा लोहितस्य चोष्णीषद्वारा भावनाकरणत्वस्येष्टत्वेन विशेष्यान्क
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy