________________
वाक्यदीपिका
११ कान्वयबोधजनकमाख्यातान्तमिति वचनं भ्रान्तप्रलपितमिति मन्वानः सिद्धान्ती भावप्रधानमाख्यातमित्यस्य संख्याकालातिरिक्ताख्यातार्थस्यैव भावतया तादृशार्थविशेष्यकान्वयबोधं प्रत्याख्यातं कारणमित्येवंविधकार्यकारणभावपरत्वात् 'प्रकृतिप्रत्ययौ सहाथै ब्रूतस्तयोः प्रत्ययार्थः प्रधानम्' इत्यस्य प्रत्ययार्थविशेष्यकशाब्दबोधं प्रति प्रत्ययः कारणमित्येवंविधकार्यकारणभावपरतया यास्कवचनगत जाख्यातपदस्य तिङ्-सुप्साधारणरूपेण प्रत्ययत्वेन पर्यवसानमेव युक्तम् । तण्डुलं पचतीत्यादौ द्वितीयार्थकर्मत्वविशेष्यकबोधस्य प्रत्ययार्थभावनाविशेष्यकबोधस्य च दर्शनादित्याशयवानाह-आख्यातपदमिति । __नन्वेवमप्युत्कटधावनस्यैव दृशिक्रियायां कर्मत्वं फणितात्पर्यविषयीभूतमिति तन्मतविरोध इत्यत आह-वस्तुतस्त्विति। नन्वेवं विशेष्यान्वयिनाऽन्वयित्वरूपं विशेषणत्वं न भाष्यसंमतमपि तूत्कटधावनस्य साक्षादर्शनक्रियायां विशेषणत्वमित्याशङ्कय तादृशविशेषणत्वस्यापि तात्रिकैः स्वीकारादित्याशयेन तात्रिकसंमतिमाह-स्पष्टं चेदमिति । __ पार्थसारथिमिश्रमते विध्यर्थस्येष्टसाधनत्वरूपत्वात् 'यजेत' इत्यादिस्थले याग इष्टसाधनमित्यन्वयबोधस्वीकारेण · दना जुहोति' इत्यत्र गुणविधौ दधीष्टसाधनमित्यन्वयबोधः, धात्वीशेऽनुवादः; होमनिष्ठं दधिकरणकत्वमिष्टसाधनमिति वान्वयबोधः । तथा च प्रकृते 'सोष्णीषा ऋत्विजः प्रचरन्ति ' इत्यत्र प्रचरणाङ्गभूताः सोष्णीषा ऋत्विज इष्टसाधनमित्यन्वयबोधस्वीकारे उष्णीषविशिष्टविजामिष्टसाधनत्वान्वये उष्णीषस्यापीष्टसाधनत्वान्वयः । एवं 'लोहितोष्णीषा' इत्यत्रापि प्रचरणाङ्गभूता लोहितोष्णीषविशिष्टत्विज इष्टसाधनमित्यन्वयबोधस्वीकारे लौहित्यविशिष्टोष्णीपस्य ऋत्विग्द्वारेष्टसाधनतान्वये लौहित्यस्यापीष्टसाधनत्वान्वय इत्यङ्गीकारः। तथा च प्रकृतेऽपि धावनक्रियाविशिष्टमृगस्य दृशिक्रियाकर्मत्वे धावनस्यापि दृशिक्रियाकर्मत्वं भाष्यसंमतमक्षतमेवेति भावः । भट्टमतेऽपि 'सोमेन यजेत' इत्यत्र सोमवता योगेनेष्टं भावयेदिति वाक्यार्थस्वीकारे सोमविशिष्टयागस्य भावनायां करणत्वेनान्वये यागद्वारा सोमस्यापि करणत्वेनान्वये बाधकाभावेन विशेष्यान्वय्यन्वयित्वरूपं विशेषणत्वमेषामपीष्टमेवेत्युदाहृतस्थले द्वयोरपि सोष्णीषैः ऋत्विग्भिः प्रचरणं भावयेल्लोहितोष्णीषैप्रविग्भिः प्रचरणं भावयेदित्यन्वयबोधस्वीकारेण विशेषणीभूतोष्णीषस्य ऋत्विग्द्वारा लोहितस्य चोष्णीषद्वारा भावनाकरणत्वस्येष्टत्वेन विशेष्यान्क