SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ वाक्यवादीका दकरूपविशेषणस्येत्यर्थः । तेन शक्यतावच्छेदकभिन्नविशेषणस्यापि पराम संभवेन । तथा चराजमातङ्गा इत्यादौ राजपदस्य राजसंबन्धिनि लक्षणायां राज्ञः पदार्थतावच्छेदकत्वेऽपि शक्यतावच्छेदकत्वाभावान्न परामर्शानुपपत्तिरिति भावः । न च वैयाकरणमते राजपुरुष इति समुदायस्य राजसंबन्धिपुरुषे शक्तिरेव । एवं च राज्ञः शक्यतावच्छेदकत्वेन तत्र परामों न स्यादिति वाच्यम्, शक्यतावच्छेदकतापर्याप्त्यधिकरणरूपविशेषणस्येत्यस्य तदर्थत्वेन राज्ञस्तथा विशेषणत्वाभावात्तस्यैवेतितत्पदेन परामर्शानुपपत्तेरभावात् । अत एव उक्तस्थले तत्पदेन विशेषणस्यापि परामर्शादेव । उत्सर्गः असति बाधके प्रवर्तमानो विधिः सति बाधके कचित्त्यज्यते । न नियम इति तच्छब्देन मुख्यस्यैव परामर्श इति नियमो नेत्यर्थः । तत्र संमतिमाह-तदुक्तमित्यादिना । अवशिष्टमिति विमर्श इत्यन्तो ग्रन्थः स्पष्टः । एवं वैयाकरणमतमुपन्यस्य नैयायिकमते, 'वाक्यार्थस्य दृशिक्रियायां कर्मतयान्वये मृगपदोत्तरं प्रथमापि न स्यात्' इत्युद्भावितदूषणमुद्धर्तुमुपन्यस्यति-मृगपदोत्तरमित्यादि न स्यादित्यर्थ इत्यन्तेन । नैयायिकमते कृतेराख्यातार्थतया कर्तुरनभिधानाद्देवदत्तेन पचतीत्यादिप्रयोगापत्तिवारणाय विशेष्यतासंबन्धेनाख्यातोपस्थाप्यसंख्याप्रकारकान्वयबोधं प्रति प्रथमान्तपदजन्योपस्थितिरितरविशेषणत्वतात्पर्याविषयीभूतार्थनिष्ठविशेष्यतासंबन्धेन हेतुरिति स्वीकरणीयम् । तथा च मृगो धावतीत्यत्र धावनानुकूलकृतिरूपभावनान्वयिनि मृगे धावतीत्याख्याताभिहितसंख्यान्वयानुरोधेन प्रथमान्तपदोपस्थाप्यत्वस्याप्यावश्यकतया मृगपदोत्तरं प्रथमा दुनिष्रेत्याशयेनाह-तत्रोच्यत इत्यादिना। मास्तु प्रथमानुपपत्तिरुदाहृतभाष्यकाराशयविरोधो हेलाराजसंमतिविविश्व दुष्परिहर इत्यत आह—यत्त्विति । ननु 'प्रकृतिप्रत्ययौ सहाथै ब्रूतः' इत्ययं न्यायः सुबन्तस्थल एव तण्डुलमित्यादौ द्वितीयार्थकर्मत्वे प्रकृत्यर्थतण्डुलप्रकारकान्वयबोधस्य विशेष्यतासंबन्धेनोत्पादस्तत्र प्रत्ययभूतद्वितीयाजन्योपस्थितेः सत्त्वाचरितार्थ इति तिङन्तस्थले धात्वर्थविशेष्यकान्वयबोध एव स्वीकरणीयः, भावप्रधानमाख्यातमिति धात्वर्थभावनामुख्यविशेष्यकान्वयबोधतात्पर्यकयास्कमुनिवचनानुरोधादित्याशयेनाह-न चेति ।भावप्रधानमाख्यातमित्यत्राख्यातपदं न तिङन्ते रूढं शास्त्रकारैस्तत्राप्रयोगात्, प्रयोगे च तत्र गौणत्वात् , तिङ्क्ष्वव शास्त्रकाराणां प्रसिद्धप्रयोगदर्शनात् , धात्वर्थभावनामुख्यविशेष्य
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy