________________
वाक्यदीपिका यबोधो भवति । तथा च विग्रहसमासयोः पटोलप्रकारकपत्रविशेष्यकबोधस्यैव स्वीकारेण पटोलपत्रमित्यादौ पटोलादिपदस्य लक्षणाभावेन पटोलस्य पदार्थतावच्छेदकत्वाभावेन तस्येतितत्पदेन तत्परामर्शानुपपत्तरभावात् । एवं च 'दशैते राजमातङ्गाः' इत्यादौ तस्यैवेतितत्पदेन राज्ञः पदार्थतावच्छेदकत्वाभावेन परामर्शः संभवतीति भावः । अथवा पटोलस्य पत्रं राज्ञोमातङ्गा इत्यादिव्यासस्थले यथा प्रकृत्यान्वितषष्ठ्यर्थप्रकारकबोधो जायते तथा पटोलपत्रं राजमातङ्गा इत्यादावपि लुप्तषष्ठीस्मरणेन पटोलाद्यन्वितसंबन्धप्रकारकपत्रादिविशेष्यकबोधस्वीकारेऽपि नामार्थयोरभेदनवान्वय इति नियमभङ्गो न । एवं च पटोलादेः पदार्थतावच्छेदकत्वाभावेन तत्पदेन परामर्शसंभवः ।।
वस्तुतस्तु नामार्थयोरभेदेनैवेति व्युत्पत्तेः संकोचे मानाभावेन लुप्तषष्ठीस्मरणस्य नैयत्याभावेन च संबन्धिनि लक्षणाया आवश्यकत्वे समानविषयकबोधजनकत्वमित्येव विग्रहसमासयोः समानार्थकत्वं न तु समानप्रकारकबोधजनकत्वरूपं तत् । आरूढवानरो वृक्ष इत्यत्रारूढो वानरो यमिति विग्रहाद्यत्कर्मकारोहणकर्ता वानर इति बोधः । समासाच्च वानरकर्तृकारोहणकर्मीभूतो वृक्ष इति बोधः । एवं प्राप्तोदको ग्राम इत्यादावपि। तत्र प्राप्तमुदकं यमिति विग्रहाद्यत्कर्मकप्राप्तिकर्तृ उदकमिति बोधः, समासाचोदककर्तृकप्राप्तिकर्मीभूतो ग्राम इत्यन्वयबोधस्तथा च तत्र तत्र भिन्नप्रकारकबोधस्यैवोदयेन व्यभिचारात् । अथ बहुव्रीहेरविग्रहतया नास्य विग्रहवाक्यत्वं, चित्रगुरित्यत्र चित्रा गौर्यस्येति हि समासार्थकथनं न तु विग्रहः । समस्यमानपदैरेवार्थकथनस्य विग्रहत्वादिति चेन्न । नहि तत्र विग्रह एव नास्तीति, समासारम्भकवाक्यस्यैव विग्रहत्वात् । किंतु बहुव्रीहौ तस्यासाधुत्वं तत्र समस्यमानपदैरेव विग्रहस्य साधुत्वात् । अत एव बहुव्रीहौ विग्रहस्यासाधुत्वज्ञापनाय तत्र नित्यसमासत्वाभिधानम्, अत एवाविग्रहो नित्यसमासःअस्वपदविग्रहो वा नित्यसमास इति तल्लक्षणम् । तत्र समासघटकीभूतपदसमानार्थकपदान्तरेणार्थप्रतिपत्त्यनुकूलो व्यापारोऽस्वपदविग्रहः । ननु राजपुरुष इत्यादौ राजपदस्य संबन्धिनि लक्षणास्वीकारे विशेषणविशेष्यवाचकपदार्थयोरभेदान्वयबोधेनाभेदे कर्मधारय इत्यनेनाभेदबोधस्थले कर्मधारयविधानात् कर्मधारयापत्तिरिति चेन्न, समासात्पूर्व विशेषणविशेष्यवाचकपदयोः समानार्थकयोर्यत्राभेदेनान्वयबोधकत्वं तत्रैव कर्मधारयविधानात्। एवं च पदार्थतावच्छेदकरूपविशेषणस्येत्यस्य शक्यतावच्छे