________________
वाक्यवादीका परामर्श इति । पदोपस्थितिप्रकारस्य तत्पदेन परामर्शासंभवेऽपि वद्भिनविशेषणस्य तत्पदेन परामर्श बाधकामावादिति भावः । अथैवं 'दशैते' इत्यादौ तस्यैवेतितच्छब्देन राजपरामर्श बाधकाभावेन तत्साधुत्वापत्तिरितिचेदिष्टापत्तिमाह-तेनेति । पदोपस्थितिप्रकारभिन्नस्य विशेषणस्यापि परामर्शसंभवेनेति तदर्थः । ननु पदार्थतावच्छेदकस्य तत्पदेन परामर्शो नास्तीत्युक्तम् । तर्हि 'दशैते राजमातङ्गाः' इत्यत्र राजपदस्य राजसंबन्धिलाक्षणिकतया राज्ञः पदार्थतावच्छेदकत्वात्तत्पदेन तस्य कथं परामर्श इति चेत्तर्हि 'पटोलपत्रं पित्तन्नम्' इत्यत्रापि पटोलपदस्य पटोलसंबन्धिलाक्षणिकतया पटोलस्य पदार्थतावच्छेदकत्वेन तस्येतितच्छब्देन परामर्शानुपपत्तिः । न च तत्र विग्रहसमासयोः समानार्थकत्वानुरोधेन षष्ठीतत्पुरुषे पूर्वपदलक्षणाया अस्वीकारेण पटोलपदस्य पटोलमात्रपरतया पदार्थतावच्छेदकत्वाभावात्तच्छब्देन परामर्शः संभवतीति वाच्यम् । प्रकृ
ऽपि राजपदस्य राजमात्रपरतया पदार्थतावच्छेदकत्वाभावेन तच्छब्देन परामर्शसंभवात् । ननु पटोलस्य पत्रमिति विग्रहवाक्यात्पटोलसंबन्धप्रकारकबोधो जायते पटोलपत्रमिति समासात्तु तत्र तल्लक्षणाऽस्वीकारे पटोलप्रकारकबोधो जायेत । तथा च विग्रहवाक्यसमासवाक्ययोः समानप्रकारकबोधजनकत्वरूपसमानार्थकत्वभङ्गापत्तिस्तद्वारणाय पटोलपदस्य पटोलसंबन्धे लक्षणा । एवं च पटोलस्य पदार्थतावच्छेदकत्वेन तस्यतितत्पदेन परामों न स्यात्। न च पटोलसंबन्धि पत्रमितिवत्पटोलपत्रमित्यादावपि पटोलपदार्थानन्वयापत्तिामार्थयोरितिव्युत्पत्तेरिति वाच्यम् । घटः पटो न, चैत्र इव मैत्रो गच्छतीत्यादौ नञर्थे पटपदार्थस्य प्रतियोगित्वसंबन्धेन इवार्थे चैत्रपदार्थस्य स्वनिरूपितत्वसंबन्धेनान्वयबोधस्वीकारेण निपातातिरिक्तनामार्थस्याभेदातिरिक्तसंबन्धेन शाब्दबोधोऽव्युत्पन्न इति नियमसंकोचवत्समस्तनिपातातिरिक्तनामार्थस्याभेदातिरिक्तसंबन्धेनान्वयबोधोऽव्युत्पन्न इति नियमसंकोचस्वीकारात् । न च निपातस्थले व्युत्पत्तिसंकोचेऽनुभवो मानं समासस्थले व्युत्पत्तिसंकोचे मानाभाव इति वाच्यम् । अत्रापि व्युत्पत्तिसंकोचे विग्रहसमासयोः समानार्थकत्वप्रवादस्यैव मूलत्वात् । तस्मात्पटोलपदस्य पटोलसंबन्धे लक्षणास्वीकारेण पटोलस्य पदार्थतावच्छेदकतया तस्येति तत्पदेन परामर्शानुपपत्तिर्वर्तत एवेति चेन्न। 'घटमानय' इत्यत्र कर्मतासंबन्धेनानयनोपरि घटोऽप्यन्वेतीत्येकदेशिमते स्वीकारेण पटोलस्य पत्रमित्यत्र पटोलसंबन्धप्रकारकबोध इव पटोलप्रकारकपत्रविशेष्यकोऽप्यन्व