SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ वाक्यदीपिका र्थनिष्ठविशेष्यतालक्षणमुख्यविशेष्यतासंबन्धेन हेतुरिति स्वीकरणीयम् । तथा च पश्य मृगो धावतीत्यत्र मृगे इतरविशेषणत्वतात्पर्यविषयीभूतार्थत्वेन निरुक्तसंबन्धेन तदुपस्थितेरभावान्मृगेसंख्यान्वयानुपपत्तिदोष इति । ननु वैयाकरणमतेऽपि मृगस्याभेदसंबन्धेन तिर्थविशेषणत्वेन तदुपस्थाप्यसंख्यान्वयः कथमिति चेन्न। तन्मते तथा कार्यकारणभावानङ्गीकारात् । तन्मते कीदृशः कार्यकारणभाव इति चेदित्थम् ‘फलव्यापारयोर्धातुराश्रयेतु तिङः स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्॥' इत्यत्र फलं विक्लित्त्यादि व्यापारस्तु भावनाऽभिन्ना साध्यत्वेनाभिधीयमाना क्रिया । धात्वथै निरूप्य तिर्थमाह-आश्रये विति । फलाश्रयं कर्म, व्यापाराश्रयः कर्ता । तत्र फलव्यापारयोर्धातुलभ्यत्वान्न तिडस्तदंशे शक्तिः । पदार्थ निरूप्य वाक्याथै निरूपयति-फले इत्यादि । विक्लित्त्यादिफलं प्रति व्यापारः प्रधानं विशेष्यमित्यर्थः । तिर्थाः कर्तृकर्मसंख्याकालास्तत्र कर्ता व्यापारे विशेषणं, कर्म तु फले विशेषणं,संख्या कर्तृप्रत्यये कर्तरि, कर्मप्रत्यये कर्मणि विशेषणं,कालस्तु व्यापारे विशेषणं न तु संख्यावत्कर्तृकर्मणोः,अतीतभावनके कर्तरि पचतीत्यापत्तेः, नापि फले फलानुत्पत्तिदशायां व्यापारसत्त्वे पचतीत्यनापत्तेः । तथा चाख्यातोपस्थाप्यसंख्याप्रकारकबोधं प्रत्याख्यातजन्यकर्तृकर्मोपस्थितिहेतुरिति कार्यकारणभावः फलितः । एवं च चैत्रस्तण्डुलं पचतीत्यत्र चैत्राभिन्नैककर्तृकस्तण्डुलभूतकर्मनिष्ठविक्लित्त्यनुकूलवर्तमानकालिको व्यापार इति बोधः । चैत्रेण तण्डुलः पच्यते इत्यत्र तण्डुलाभिन्नैककर्मनिष्ठविक्लित्त्यनुकूलवर्तमानकालिकचैत्रकर्तृको व्यापार इति बोधः । इत्थं च प्रकृते 'मृगो धावति' इत्यत्र मृगाभिन्ने कर्तरि तदुपस्थितेः सत्त्वेन न तत्र संख्यान्वयानुपपत्तिरिति भावः । ननु मुख्येत्यनिवेश्य प्रथमान्तपदजन्योपस्थितेर्हेतुत्वस्वीकारान्न संख्यान्वयानुपपत्तिरित्यत आह-अन्यथेति । मुख्यविशेष्यतासंबन्धेन तादृशोपस्थितेहेतुत्वानङ्गीकारे इति तदर्थः । तथा च तार्किकमते तत्र संख्यान्वयानुपपत्तिरेव । संख्यानन्वये इष्टापत्तिं वारयति-मृगे इत्यादि साधुत्वापत्तेरित्यन्तेन । ननु 'प्रयाति पुरुषस्तस्य ' इत्यत्र तच्छब्देन पुरुषपरामशों न स्यादिति दूषणं तु वर्तत एवेति चेन्न, तच्छब्दस्य विशेषणोपस्थापकत्वस्यापि कुत्रचिदृष्टत्वेन विशेषणीभूतस्यापि पुरुषस्य तच्छब्देन परामर्शसंभवादित्याह-किं चेति । ननु तर्हि घटोऽयं तज्जातिरित्यादावपि प्रामाण्यं स्यात्तत्रापि तत्पदेन घटत्वपरामर्शसंभवादित्यत आह-परं त्विति । न
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy