________________
वाक्यवादटीका प्रथमान्तार्थमुख्यविशेष्यकबोधस्वीकारे दोषान्तरमाह-किं चेति । ' शृणु गर्जति मेघः' इत्यत्र गर्जनाश्रयमेधकर्मकश्रवणाश्रयस्त्वमिति नैयायिकमते बोधः । स च न संभवति शब्दस्यैव श्राव्यत्वेन मेघस्याश्राव्यत्वात् । मेघाभिन्नैकाश्रयवृत्तिगर्जनकर्मकश्रवणं त्वदभिन्नैकाश्रयकमिति वैयाकरणमते बोधः । स च समीचीन एव । 'नटो गायति शृणु' इत्यत्र गानाश्रयनटकर्मकश्रवणाश्रयस्त्वं इति तार्किकमते बोधः । स च न संभवति नटस्याश्राव्यत्वात् । नटाभिन्नैकाश्रयवृत्तिगानकर्मकश्रवणं त्वदभिन्नैकाश्रयकमिति वैयाकरणमते बोधः। स च यथार्थ एव । 'घटोऽनश्यत्पश्य ' इत्यत्र चातीतोत्पत्तिकनाशप्रतियोगिघटकर्मकदर्शनाश्रयस्त्वमिति न्यायमते बोधः । स च न संभवति घटस्य नष्टत्वेन तदर्शनासंभवात् । घटाभिन्नैकप्रतियोगिकातीतोत्पत्तिकनाशविषयकदर्शनं त्वदभि
काश्रयकमिति वैयाकरणमते बोधः । स च प्रमैव । तथा च न्यायमते तत्र तत्राव्याप्तिरेवेति भावः । एतेन शृणु गर्जतीत्यादेरयोग्यत्वापादनेन । प्रथमार्थ इति । तथा च पश्य मृगो धावतीत्यत्र प्रथमान्तार्थमुख्यविशेष्यकबोधस्वीकारेऽपि नामार्थधात्वर्थयोरभेदातिरिक्तसंबन्धेनान्वयबोधोऽव्युत्पन्न इति नियमभङ्गो नास्ति । धावनकर्तृमृगनिष्ठप्रथमार्थविषयतानिरूपकदर्शनाश्रयस्त्वमित्याकारकान्वयबोधस्वीकारेण कर्मतासंबन्धेन धावनकर्तृमृगस्य दर्शनक्रियायामनन्वयादिति भावः।
ननु क्रियामुख्यविशेष्यकान्वयबोधस्वीकारे 'प्रयाति पुरुषस्तस्य चरणावभिवादये' इत्यादौ तच्छब्देन पुरुषपरामर्शो न स्यात्। प्रथमान्तार्थस्य पुरुपस्याख्यातार्थविशेषणत्वेन मुख्यविशेष्यत्वाभावाद्धटोऽयं तजातिरित्यादेः प्रामाण्यापत्तिवारणाय तच्छब्दस्य मुख्यविशेष्योपस्थापकत्वस्वीकारादतः प्रथमान्तार्थमुख्यविशेष्यकबोध एव स्वीकर्तव्य इत्यत आह-किं चेति । एवं धावनकर्तृमृगकर्मकदर्शनाश्रयस्त्वमिति प्रथमान्तार्थमुख्यविशेष्यकबोधस्वीकारे कुतः संख्यान्वयस्तत्र न स्यादित्यत आह-आख्यातोपस्थाप्येत्यादि । तत्रायमभिप्रायः-तार्किकमते कृतेराख्यातार्थतया कर्तुरनभिधानाद्देवदत्तेन पचतीत्यादिप्रयोगापत्तिवारणायाख्यातार्थभावनान्वय्यन्वयिसंख्यायामनभिहितायामित्यस्य ‘कर्तृकरणयोस्तृतीया' इत्यनभिहिताधिकारीयसूत्रार्थत्वेन स्वीकारणाख्यातोक्तकर्तरि कर्मणि च तदुक्तसंख्याया अन्वय इति वक्तुमशक्यत्वेन विशेष्यतयाख्यातोपस्थाप्यसंख्याप्रकारकान्वयबोधं प्रति प्रथमान्तपदजन्योपस्थितिरितरविशेषणत्वतात्पर्याविषयीभूता