________________
वाक्यदीपिका वाक्योत्तरं विभक्तेरदर्शनेन दृशिधात्वर्थान्वयिनं नीलाभिन्नं घटमिति वाक्योत्तरमिव प्रकृतेऽपि धावनकृतिविशिष्टमृगार्थकमृगषदोत्तरं प्रथमापि न स्यादिति भावः । ननु यादृशसामग्रीसत्त्वे यत्कार्य दृष्टं तदेव तत्रापाद्यं नीलं घटं पश्येत्यत्र तादृशसमभिव्याहारज्ञानादेव नीलघटकर्मत्वनिरूपकदर्शनान्वयबोधस्य दृष्टत्वेन नीलं घटमिति वाक्योत्तरं विभक्तिाभूत् पश्य मृगो धावतीति प्रथमान्तपदसमभिव्याहारज्ञानादेवधावनकर्तृमृगकर्मकदर्शनान्वयबोधो भवति न तु तद्विभक्तिव्यतिरेकत इति प्रथमापि न स्यादिति नियुक्तिकमत आह–किं चेति । तच्च एकवाक्यत्वं च अनुपपन्नमेवेति धावनकर्तृमृगकर्मकदर्शनाश्रयस्त्वमिति बोधस्वीकारे फणिविवक्षितैकवाक्यत्वानुपपत्तिरिति भावः ।
ननु मृगकर्तृकोत्कटधावनस्य दृशिक्रियायामन्वयः फणितात्पर्यविषय इत्येव कुतोऽवगम्यत इत्याशङ्कय 'व्याख्यानतो विशेषप्रतिपत्तिर्नहि संदेहादलक्षणम्' इत्यभिप्रायेण भाष्यार्थस्पष्टीकर्तृहेलाराजसंमतिमाह-फणिसंमतिस्त्विति । तेन मृग इति सुबन्तं दर्शने विशेषणं न, मृगकर्तृकोत्कटधावनं दर्शने विशेषणमिति हेलाराजेन स्पष्टीकरणेन । एवकारोत्तरं 'कर्मतया दृशिक्रियायामन्वयस्य' इति शेषः । विवक्षायामित्यनन्तरं 'प्रयुक्तस्य पश्य मृगो धावति इति वाक्यस्य' इति शेषः । न प्रतीकारः न निराकरणम् । तथा च तादृशमृगस्य कर्मतया तत्रान्वयस्वीकारे फणिसंमतवाक्यत्वानुपपत्तिरेव दोष इति भावः । ननु 'प्रकृतिप्रत्ययौ सहाथै ब्रूतस्तयोः प्रत्ययार्थस्य प्राधान्यम्' इति नियमाद्धात्वर्थनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेनान्वयबुद्धिं प्रति विशेष्यतया प्रत्ययजन्योपस्थितिहेतुरिति कार्यकारणभावेन दर्शने प्रत्ययजन्योपस्थितेरभावेन धावनस्य तत्रान्वयो न संभवतीति मृगस्यैव तत्रान्वयेन तार्किकपक्ष एव समीचीन इति चेन्न, निरुक्तनियमादेव प्रकृत्यर्थप्रकारकबोधे विशेष्यतया प्रत्ययजन्योपस्थितेः कारणत्वेन कर्मत्वोपस्थित्यथै द्वितीयापेक्षा । तथा च पश्य मृगो धावतीति वाक्योच्छेदापत्तरित्याह-अन्यथेति । कर्मत्वोपस्थित्यर्थ द्वितीयास्वीकारे इति तदर्थः । __ तथा च सुबन्तस्थल एव तादृशन्यायश्चरितार्थस्तिङन्तस्थले धात्वर्थविशेष्यकान्वयबोध एव स्वीकरणीय इति लडर्थविवक्षायामपि भूतभविध्यद्वर्तमानविषयकज्ञाने वर्तमानकालिकत्वान्वयसंभवेन क्रियाविनिर्मुक्तं वाक्यमसंगतमित्याह-किं चेति ।