SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ वाक्यवादटीका न्वयेऽपि वर्तमानसंबन्धिभवने तदन्वयासंभवात्। न च सामीप्यं वर्तमानसाधारणं निर्वक्तुं शक्यं, येन वर्तमानसंबन्धिनोऽपि भवनस्य ग्रहणं स्यात् । न च लटो वर्तमानसामीप्यं वर्तमानत्वं चार्थ इति वाच्यम् । शक्तिलक्षणाभ्यामेकेन शब्देन युगपदनेकार्थाप्रतीतेः । न च गङ्गायां घोषमत्स्यौ स्त इत्यत्र घोषमत्स्यान्वयानुरोधेन गङ्गापदेन प्रवाहतीरयोवृत्तिद्वयेनोपस्थितिदर्शनाल्लटा वर्तमानतत्सामीप्ययोस्तथैवोपस्थितिरस्त्विति वाच्यम् । युगपद्धत्तिद्वयविरोध इति प्राचीनगाथाविरोधादित्येतदभिप्रेत्याह--न ह्यत्रेत्यादि । ननु तत्र लडर्थोऽविवक्षित एवेत्यत आह-अपि चेत्यादि । घटोऽयं तज्जातिरित्यादेः प्रामाण्यापत्तिवारणाय सर्वनाम्नां प्रधानोपस्थापकत्वावश्यकत्वं तथा च पुरुषाभिन्नैकाश्रयवृत्तिप्रयाणानुकूलो व्यापार इति बोधे पुरुषस्य विशेषणतया भानेन तस्य चरणावित्यत्र तच्छब्देन परामझे न स्यादतः प्रथमान्तार्थमुख्यविशेष्यकबोध एव स्वीकर्तव्य इत्याह-क्रियाया विशेष्यत्वे इत्यादिना । अन्यथा सर्वनाम्नां विशेषणोपस्थापकत्वे । नामार्थप्रकारकभेदसंसर्गकबोधे विभक्तिजन्योपस्थितेः कारणत्वेन ताहशमृगस्य कर्मतया दर्शनेऽन्वयासंभव इत्याह--पश्य मृगो धावतीत्यत्रेत्यादिना । हशिधातुज्ञानजन्यचाक्षुषज्ञानोपस्थितिकृतो यो "धात्वाख्यातप्रातिपदिकजन्यगतिविशेषकृतिमृगोपस्थितिसहकृत-'धावति मृगः' इति वाक्यज्ञान-जन्य-'धावनानुकूलकृतिमान्मृगः' इत्याकारक"-बोधस्तत्सहकृतेन पश्य मृगोधावतीतिवाक्यज्ञानेन, कर्मतासंबन्धावच्छिन्नधावनकृत्यवच्छिन्नमृगनिष्ठप्रकारतानिरूपितचाक्षुषज्ञाननिष्ठविशेष्यताशालिशाब्दस्य जनने न मृगादिपदजन्योपस्थितिः सहकारिणी । अपि तु तादृशोपस्थितिसहकृत-'धावति मृगः' इतिसमभिव्याहारजन्यधावनकर्तृमृगविषयकबोधस्य सहकारित्वमिति तादृशमृगस्य नामजन्योपस्थित्यविषयत्वेन तस्य च कर्मतया धात्वर्थेऽन्वये धात्वर्थनामार्थयोरभेदातिरिक्तसंबन्धेन बोधोऽनुपपन्न इति नियमभङ्गरूपदोषो नेत्यभिप्रेत्याह-तत्र धावनेत्यादिना । तथा सति वाक्यार्थस्य धावनकृतिविशिष्टमृगस्य कर्मतया धात्वर्थेऽन्वये सति । प्रथमापीत्यपिना विभक्तिसामान्यप्रतिषेधः । मृगपदोत्तरं कापि विभक्तिर्न स्यादित्यर्थः । तत्र चापादकमप्रातिपदिकत्वादिति पूरणीयं तस्या अपीत्यादिग्रन्थानुरोधात् । यद्यपीदमापादनमसंगतं मृगपदस्य धातुप्रत्ययान्तभिन्नत्वान्मृगत्वावच्छिन्नस्य सत्त्वेनार्थवत्त्वाच्च अप्रातिपदिकवादित्यापादकासिद्धेस्तथापि यादृशवाक्यार्थस्य धात्वर्थेऽन्वयस्तादृश
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy