________________
वाक्यदीपिका
शान्तेः स्वयमुदपानेन विनाऽदर्शनात्तृप्तिः पारलौकिकी वक्तव्या, लडर्थो न विवक्षित इति भावः । अत एवेति ' मधुसूदनठक्कुराः ' इत्यत्राप्यन्वेति । 'अथ शब्दो निरूप्यते' इति चिन्तामणिस्थपदस्य व्याख्यानरूपालोकनामपक्षधर मिश्रकर्तृकग्रन्थस्य व्याख्या कण्टकोद्धार इति मधुसूदनकर्तृको ग्रन्थ इति बोध्यम् ।
त्रयः काला इत्यत्र त्रित्वविशिष्टाभिन्नाः काला इत्यन्वयबोधः । पचति भवतीत्यत्र पाकानुकूलकृतिर्भवनाश्रय इत्यन्वयबोधः । चैत्रः पचतीत्यत्र पाकानुकूलकृतिमांश्चैत्र इत्यन्वयबोधः । स्वार्थनिष्ठमुख्यविशेष्यतानिरूपितप्रकारताशा लिबोधजनकपदसमभिव्याहृतपदत्वरूपस्य किंचित्पदार्थनिष्ठप्रकारतानिरूपितस्वार्थनिष्ठमुख्यविशेष्यताशालिबोधजनकतत्पदसमभिव्याहृतपदत्वरूपस्य (वा) वाक्यत्वस्य पश्य मृगो धावतीत्यादावपि सत्त्वेन तमिति पदाध्याहाराभावादेकवाक्यत्वक्षतिविरह इत्याह-पश्य मृगो धावतीत्यादावपीति । तस्य एकवाक्यत्वस्य । ननु नामार्थप्रकारकभेदसंसर्गकबोधे विभक्तिजन्योपस्थितेः कारणत्वेन कथं धावतो मृगस्य कर्मतासंबन्धेन दृशिक्रियायामन्वयस्तत्र तज्जन्योपस्थितेरभावादतस्तदर्थं द्वितीयापेक्षिता, तथा च तादृशवाक्योच्छेद इत्याशङ्कय वाक्यस्य प्रातिपदिकत्वाभावेन तदर्थप्रकारकबोधस्य तज्जन्यतावच्छेदकानाक्रान्तत्वान्न द्वितीयापत्तिरित्याह-वाक्यस्य चार्थवत्त्वाभावेनेत्यादि । अर्थवत्त्वाभावेन अर्थनिरूपितशक्तिलक्षणान्यतरसंबन्धाभावेनेत्यर्थः। तथा चानुकूलतासंबन्धावच्छिन्नधावननिष्ठप्रकारतानिरूपित विशेष्यत्वाभिन्न- समवायसंबन्धावच्छिन्नकृतिनिष्ठप्रकारता-नि
रूपितविशेष्यत्वाभिन्नकर्मतासंबन्धावच्छिन्नमृगनिष्ठप्रकारता -निरूपितविशेष्यत्वाभिन्ननिरूपितत्वसंबन्धावच्छिन्नदर्शननिष्ठप्रकारता -निरूपितविशेष्यत्वाभिन्नस्वरूपसंबन्धावच्छिन्नाश्रयत्वनिष्ठप्रकारता - निरूपित -त्वंपदार्थ - निष्ठमुख्यविशेष्यताशाली बोधः ।
ननु क्रियाविनिर्मुक्तवाक्यस्य प्रमाणविरुद्धत्वेन वाक्यत्रैविध्यमसंगतमित्याशङ्कयाह — किंचेत्यादि ।
क्रियाविनिर्मुक्तवाक्यमेव दर्शयति तथा हीत्यादिना । सार्वजनीनत्वात् सर्वजनानुभवसिद्धत्वात् । नन्वत्रापि भवन्तीति क्रियाध्याहारः शक्य एव कर्तुमिति चेन्न, भूतभाविकालयोर्वर्तमानभवनाश्रयत्वबाधात् । न च जयन्त्यादाविव वर्तमानसामीप्यार्थकत्वं लट इति वाच्यम् । वर्त - मानसामीप्यस्य भूतभविष्यद्रूपस्य भूतभविष्यत्कालसंबन्धिभवना