SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ वाक्यवादटीका मित्येव बोधस्तजनकतयैकवाक्यत्वक्षतेरभावात्कथमगतिस्तत्रेत्याशङ्कय मृगपदार्थस्य दर्शने कर्मतासंबन्धेनान्वयबोधस्य-नामार्थस्य धात्वर्थेऽभेदातिरिक्तसंबन्धनान्वयबोधस्वीकारे तण्डुलः पचतीत्यादिप्रयोगस्य साधुत्वापत्त्या नामार्थप्रकारकभेदसंसर्गकबोधे विभक्तिजन्योपस्थितेः कारणत्वेन-अनुपपन्नत्वात् मृगपदार्थस्य कर्मताबोधार्थ मृगपदोत्तरं द्वितीयावश्यकीत्याशयेनाह-मृगस्येत्यादि । तत्र फलितमाह-द्वितीयायां चेत्यादि धावन्तं मृगं पश्येत्येवं स्यादित्यन्तेन । ननु तथा प्रयोगो भवत्येवेति न दोष इत्याशङ्कय धावन्तं मृगं पश्येत्येवं स्यान्न तु पश्य मृगो धावतीति प्रयोगस्तथा च तस्योच्छेद एवानिष्टकर इत्याह तथा चेति । ननु तत्र मृगमुख्यविशेष्यताकबोध एव स्वीक्रियते तमित्यध्याहारेण तथा च न तस्योच्छेद इत्यत आह-तमित्यध्याहार इत्यादि । वाक्यभेदे इष्टापत्तिमाशङ्कय परिहरति-न चेति । तथा सति वाक्यभेदे सति । अतिङन्तात्परं तिङन्तं निहन्यत इति 'तिङतिङः' इतिसूत्रार्थः । नन्वेकवाक्यत्वाभावेऽपि तिङन्तात्परस्यातिमहणव्यावर्त्यत्वसंभव इत्याशङ्कय 'समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः' इति वचनेन तिङन्तेन सह तिङन्तस्यैकवाक्यतायामेवातिङइतिग्रहणाभावे निघातप्रसक्तिस्तद्वारणाय सूत्रे तगहणमेकवाक्यत्वाभावे निघातप्रसक्तिरेव नेत्याहनिघातस्वरस्येत्यादि । एकवाक्यत्वाभावे तिङन्तेन सह तिङन्तस्यैकवाक्यत्वाभावे, तदनुपपत्तेः तिङन्तात्परस्य निघातप्रसक्त्यनुपपत्तेः, तथा चातिङ इतिग्रहणस्य वैयर्थ्यमिति भावः । ननु हरेरित्यादाववताराणां भूतभावित्वेन क्रियाध्याहाराभावेन तत्र तल्लक्षणाव्याप्तिरित्याशङ्कय लडर्थस्याविवक्षितत्वेन भवन्तीत्यध्याहारसंभव इत्याह-भवन्तीत्यवेहीत्यादि अविवक्षितत्वादित्यन्तेन।हरिसंबन्धिदशावताराभिन्नबहुत्वावच्छिन्नाश्रयवृत्तिभवनानुकूला भावनेति बोधः । लडर्थविवक्षायामपि 'वर्तमानसामीप्ये वर्तमानवद्वा' इति वचनेन वर्तमानसमीपान्यतरनिष्ठा वादृशी भावनेति बोध इत्याह-वर्तमानसामीप्ये वेत्यादि । अत एव लडर्थाविवक्षणादेव सामीप्यार्थकत्वादेव वा । जयन्तीति । कृष्णसंबन्धिदशावताराभिन्नबहुत्वावच्छिनाश्रयवृत्तिवर्तमानसमीपनिष्ठोत्कर्षानुकूला भावनेति बोधः । अत एवेत्यस्य मिश्रा इत्यनेनाप्यन्वयः । वारिद इति । वारिदाभिन्नैकाश्रयवर्तिनी तृप्तिकर्मकप्राप्त्यनुकूला भावना वर्तमानकालिकात्यन्वयबोध आश्रयणीयः, स च न संभवति तद्भावनाया भविष्यत्वात् । इह लोके पानीयदातुस्तृषा
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy