SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीहरियशोमिश्रविरचिता वाक्यदीपिका । ( वाक्यवादीका ) I सुप्तिङन्तचयो वाक्यमिति प्रमाणानुसारेण सुबन्तचयत्वे सतिं तिङन्तचयत्वस्य मिलितस्य प्रत्येकं वा सुबन्तचयत्वादेर्वाक्यलक्षणत्वे परस्परमव्याप्तिः, पदसमूहमित्यस्य गौरश्वः पुरुषो हस्तीत्यादावतिव्याप्तिरित्याशयेन पृच्छति — अथेति । इदं लोके प्रसिद्धं वाक्यं वाक्यपदवाच्यं, किं जिज्ञासितम् । तथा च लोके प्रसिद्धं वाक्यपदवाच्यं जिज्ञासाविषयीभूतमित्यन्वयबोधः । नामेति वाक्यालङ्कारे । एकतिङ् वाक्यमिति भाष्यादिति । एकत्वे सति तिङ्त्वं वाक्यत्वमित्युक्ते पचतीत्यस्यापि वाक्यत्वापत्तिः । एक: तिङ् यस्मिन्निति बहुव्रीह्याश्रयणे एकतिङ्घटितपदसमुदायत्वं वाक्यत्वमिति पर्यवसन्नं पचति भवतीत्यादावव्याप्तमित्याशयेन तदर्थमाहएकेति । तेनेति एतादृशार्थकरणेन । अन्वयश्वास्य नैकवाक्यताव्याघात इत्यत्र तन्निषेधे । पचति भवतीत्यत्र बिक्लित्त्यनुकूलैकाश्रयवृत्तिभावनाभिनैकाश्रयभवनानुकूला भावनेति बोधः । पश्य मृगो धावतीत्यत्र मृगाभिनैकाश्रयवृत्त्युत्तर देशसंयोगानुकूलवेगजन्यविलक्षणव्यापारकर्मकचाक्षुषानुकूलव्यापारस्त्वदभिन्नैकाश्रयवृत्तिरित्यन्वयबोधः । नैकवाक्यतेति तिङन्तभेदप्रयुक्तानेकवाक्यतापत्तिर्नेत्यर्थः । ननु क्रियाविनिर्मुक्तवाक्यस्यापि सत्त्वेन तत्र तल्लक्षणाव्याप्तिरित्याशय तद्वाक्यस्य प्रमाणविरुद्धत्वेनाव्याप्त्यभावादित्याह — नहीत्यादिना । ननु 'प्रयाति पुरुषस्तस्य चरणावभिवादये' इत्यादौ तच्छब्देन पुरुषपरामर्शानुरोधात्प्रथमान्तार्थस्यैव बोधमुख्यविशेष्यत्वस्वीकारेण निरुक्तलक्षणमयुक्तमित्याशयेन शङ्कते - अस्त्वित्यादिना । समाधत्ते — पश्य मृग इत्यादिना । ननु पश्येत्यादौ प्रथमान्तार्थमुख्यविशेष्यकबोधस्वीकारेऽपि तमिति - पदाध्याहारेण धावनानुकूलकृतिमान्मृगो मृगकर्मकदर्शनाश्रयस्त्वमिति बोधो न स्वीक्रियते । येन नानामुख्यविशेष्यकबोधजनकत्वेन वाक्यभेदः स्यात् । अपि तु धावनानुकूलकृतिमन्मृगनिष्ठकर्मतानिरूपकदर्शनाश्रयस्त्व
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy