SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ वाक्यवादः। (?)मश्रूयत पाञ्चजन्य इत्यभियुक्तप्रयोगाच्च सविशेषणे हीति न्यायस्य सर्वसमतत्वाञ्चेति । यत्तु किं चैवं मृगे संख्यान्वयो न स्यात्, आख्यातोपस्थाप्यसंख्याप्रकारकान्वयबोधं प्रति मुख्यविशेष्यतया प्रथमान्तपदजन्योपस्थितेहेतुत्वात् अन्यथा 'हंसीव धवला कीर्तिः' इत्यत्र हंस्यामपि संख्यान्वयप्रसङ्गः । मृगे संख्यानन्वये इष्टापत्तौ च पश्य धावति मृगा इत्यादेरपि साधुत्वापत्तेरिति तन्न । एवं दर्शने धावनविशिष्टमृगस्य विशेष्यतयाऽन्वयस्वीकारे इत्यर्थः । मुख्यविशेष्यतया विशेषणत्वाभावे सति विशेष्यत्वं मुख्यविशेष्यत्वं तेनेत्यर्थः । तत्र मुख्येति न वक्तव्यं चैत्र एव पचतीत्यादौ व्यभिचारात् ।अन्ययोगव्यवच्छेदकरूपैवकारार्थैकदेशेऽन्वये चैत्रस्य विशेषणत्वेन मुख्यविशेष्यतया प्रथमान्तपदजन्योपस्थितिविषयत्वाभावाचैत्रान्यो न पचति चैत्रः पचतीति तदर्थात् । तथाच चैत्र एव पचतीत्यत्र चैत्रे संख्यान्वयार्थमाख्यातोपस्थाप्यसंख्याप्रकारकान्वयबोधं प्रति विशेष्यतया प्रथमान्तपदजन्योपस्थितिहेतुरित्येव कार्यकारणभावोऽङ्गीकर्तुमुचितः । अन्यथा 'हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते' इत्याद्युपमाने संख्यान्वयानङ्गीकारे स्वर्गगावगाहनाश्रयत्वस्याख्यातार्थस्य संख्यायाश्च साधारणधर्मत्वानुपपत्तेः । हंस्य इव कृष्ण ते कीर्तिरित्यादीनामपि साधुत्वापत्तौ चालङ्कारिकमते वैरस्यापादकलिङ्गवचनभेदस्योपमानोपमेयनिष्ठस्य दुष्टत्वं न स्यात् । संख्याकालातिरिक्ताख्यातार्थे हि भावनान्वयिनि संख्यान्वय इति नियमात्। कचिद्विशेष्यस्य कचिद्विशेषणस्य परामर्शात्तात्पर्यविषयपरामर्शकत्वं तच्छब्दस्य नियतम् । परं तु पदार्थतावच्छेदकरूपविशेषणस्य कचिदपि न परामर्शः। इति वाक्यवादः समाप्तः।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy