SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ वाक्यवादः । वस्तुतस्तु प्रथमान्तार्थप्राधान्येऽपि मृगकर्तृकोत्कटधावनस्य कर्मतासंबन्धेन दृशिक्रियायां विशेषणतयान्वयो न विरुध्यते । यतो हि विशेष्यान्वयि - नान्वयित्वमात्रं विशेषणत्वं धावनक्रियाविशेष्यो मृगस्तदन्वयिनी दर्शनक्रिया तदन्वयित्वरूपं विशेषणत्वं धावनक्रियाया अक्षतमिति न भाष्यकृदुक्तिविरोधा न वा हेलाराजोक्तिविरोध इति तत्त्वम् । स्पष्टं चेदं मीमांसायां सोष्णीषा ऋत्विजः प्रचरन्ति, लोहितोष्णीषा ऋत्विजः प्रचरन्तीत्यादौ । तथा हि पूर्ववाक्ये उष्णीषाणामपीष्टसाधनत्वे विशेषणतयाऽन्वयः । तत्र विशेषणत्वं विशेष्यान्वयिनान्वयित्वमेव । उष्णीषाणां विशेष्याः ऋत्विजस्तद्न्वयि इष्टसाधनत्वं तदन्वयित्व मुष्णीषाणामिति । उत्तरवाक्ये तु पूर्ववाक्यलब्धस्योष्णीषविशिष्टऋत्विकर्तृकप्रचरणस्य नेष्टसाधनत्वेऽन्वयः । किं तु लौहित्यमात्रस्य । तत्रापि परंपरया तूष्णीषद्वारा ऋत्विग्रूपविशेष्यान्वायना इष्टसाधनत्वेन लौहित्यान्वयस्वीकारादिति । यत्तु धावन्तं मृगं पश्येत्येव ब्रूयादिति तन्न । पर्यायशब्दानां प्रयोगे वक्तुरिच्छाया एव नियामकत्वेनेष्टापत्तेः । सर्वथातात्पर्याभावे मृगपदं नोचारयेत् । किं तु धावति पश्येत्येव ब्रूयादिति न काऽप्यनुपपत्तिरिति । यत्तु त्रयः काला इत्यत्र ज्ञायन्ते इति क्रियान्वयसंभवात् क्रियाविनिमुक्तवाक्यस्यासंगत्यापत्तेरिति तन्न । ज्ञानक्रियानाकाङ्क्षयोः कति काला: त्रयः काला इति प्रश्नोत्तरवाक्ययोः क्रियाविनिर्मुक्तत्वसंभवादिति । यत्तु शृणु गर्जति मेघः, नटो गायति शृणु, घटोऽनश्यत्पश्येत्यादावप्यगतेश्चेति । तन्न । 'सविशेषणे हि विधिप्रतिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे' इति न्यायाद्विशेष्येषु मेघनटघटेषु श्रवणदर्शनयोर्बाधाद्विशेषणेषु गर्जनगानाभावेषु श्रवणदर्शनान्वयसंक्रमादिति । यत्तु शृणु गर्जति मेघः इत्यादौ श्रवणे मेघकर्मकत्वाभावेन प्रथमार्थ एव कर्मत्वमित्यपास्तमिति तन्न । सविशेषणे हीति न्यायेन श्रवणे गर्जनविशिष्टमेघकर्मकत्वबाधेऽपि गर्जनकर्मकत्वस्यान्वयसंभवात्कर्मत्वं प्रथमार्थ इति सम्यगेवोक्तमिति । पदार्थत्वे प्रकारतया भानं विशेषः । वस्तुतस्तु सुब्विभक्तौ न लक्षणेति नियमात्कर्मत्वं प्रथमार्थो न भवति । किं च साधुत्वमात्रार्थिकायाः प्रथमायाः शक्याभावाच्छक्यसंबन्धरूपा लक्षणा न संभवत्येवेति तत्त्वम् । शङ्खाः श्रूयन्ते भेर्यः श्रूयन्ते इति महाभाष्यकारप्रयोगात्, निध्वान
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy