SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ वाक्यवादः। किं चैवं मृगे संख्यान्वयो न स्यात् ।आख्यातोपस्थाप्यसंख्याप्रकारकान्वयबोधं प्रति मुख्यविशेष्यतया प्रथमान्तपदजन्योपस्थितेर्हेतुत्वात् । अन्यथा 'हंसीव धवला कीर्तिः' इत्यत्र हंस्यामपि संख्यान्वयप्रसङ्गः । मृगे संख्यानन्वये इष्टापत्तौ च ‘पश्य धावति मृगाः' इत्यादेरपि साधुत्वापत्तेः । किं च 'पटोलपत्रं पित्तनं नाडी तस्य कफापहा' 'चैत्रो ग्रामगतस्तत्र मैत्रः किं कुरुतेऽधुना' इत्यादिप्रयोगदर्शनात्तच्छब्देन विशेषणस्यापि परामर्शः। परं तु पदार्थतावच्छेदकरूपविशेषणस्य कचिन्न परामर्शः। तेन दशैते राजमातङ्गा इत्यादौ न काऽप्यनुपपत्तिः । अत एवोत्सर्गोऽयं न नियमः । तदुक्तम्-'सर्वनानामुत्सर्गतः प्रधानपरामर्शित्वम् ' इति दिक् । विवेचितं चेदमधस्तादवशिष्टं चोपरिष्टात्स्पष्टीभविष्यति । इति श्रीमहोपाध्यायमैथिलवंशमणेविमर्शः । अत्र नैयायिकाः प्रत्यवतिष्ठन्ते । मृगपदोत्तरं प्रथमापि न स्यादिति । धावनक्रियाविशिष्टस्य मृगस्य वाक्यार्थत्वेन नामार्थत्वाभावात्प्रातिपदिकाश्रयीभूता प्रथमाऽपि नस्यादित्यर्थः। तत्रोच्यते-मृगो धावतीत्याख्यातोक्तसंख्याके कर्तरि नामार्थे प्रथमा, पश्चात्पश्यतिक्रियान्तरे वाक्यार्थतयान्वयेऽपि प्राथमिकी प्रातिपदिकसंज्ञा निराकर्तुं न शक्येति को नाम प्रथमां निवारयितुमीष्टे इति । यत्तु मृगकर्तृकोत्कटधावनस्यैव दृशिक्रियायां कर्मतयान्वयो विवक्षित इति भाष्यकृदाशयवर्णनं, यदपि-- " सुबन्तं हि यथानकं सुबन्तस्य विशेषणम् । तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम् ।।" इति हेलाराजसंमतिप्रदर्शनं तदुभयमपि न विचारचारु । प्रकृतिप्रत्ययौ सहाथै ब्रूतस्तयोः प्रत्ययार्थः प्रधानमिति नियमात् , धात्वर्थनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति विशेष्यतया प्रत्ययजन्योपस्थितिहेतुरिति कारणाभावादेकधात्वर्थप्रकारकापरधात्वर्थविशेष्यकान्वयबोध एव न संभवतीति । न च 'भावप्रधानमाख्यातं सत्वप्रधानानि नामानि' इति यास्कमुनिविशेषवचसा आख्यातस्थले प्रत्ययार्थप्राधान्यं त्यज्यत इति वाच्यम् । आख्यातपदं तिक्ष्वेव निरूढं न तु धातुष्विति । आख्याताथषु संख्यावर्तमानत्वादिषु भावस्यैव संख्याकालातिरिक्ताख्यातार्थस्यैव प्राधान्यमिति तदर्थात् ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy