SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ वाक्यवादः। हि सुबन्तसमूहः, तिङन्तसमूहः, सुबन्ततिङन्तसमूहश्च । यथा त्रयः कालाः, पचति भवति, चैत्रः पश्यति इत्यादि । एकवाक्यता त्वेकमुख्यविशेष्यकबोधजनकत्वेन, पश्य मृगो धावतीत्यादावपि तस्याक्षतेः । तथा हि धावनकर्तृमृगकर्मकदर्शनाश्रयस्त्वमित्यन्वयबोधाद्वाक्यार्थस्यात्र कर्मतासंसर्गेण दृशि क्रियायां भानं, वाक्यस्य चार्थवत्त्वाभावेन न प्रातिपदिकप्रयुक्तद्वितीयाद्यापत्तिः । न च वाक्यभेदप्रसङ्गः। . किं च नहि क्रियाविनिर्मुक्तं वाक्यमस्तीति फणिनो धरणीभारविजृम्भणभणतिरेव । तथा हि-त्रयः काला इत्यादौ क्रियाविनिर्मुक्तवाक्यस्य सर्वजनीनत्वात्। नह्यत्र काऽपि क्रियाऽध्याहर्तुं शक्या । अपि च क्रियाविशेष्यत्वे 'प्रयाति पुरुषस्तस्य चरणावभिवादय' इत्यादौ तच्छब्देन पुरुषस्य परामर्शो न स्यात् । तस्य विशेषणत्वेनोपस्थितत्वात् । अन्यथा- देशैते राजमातङ्गास्तस्यैवामी तुरङ्गमाः। ' इत्यादेरपि साधुत्वापत्तेः । इत्याद्यनल्पं जल्पन्ति स्म । - अत्रेदं भावयामः-पश्य मृगो धावतीत्यत्र तादृशमृगस्य दर्शनक्रियायां कर्मतासंसर्गेणान्वयो न भवति । नामार्थधात्वर्थयोरभेदातिरिक्तसंबन्धेन साक्षादन्वयबोधस्याव्युत्पन्नत्वात् । अन्यथा तण्डुलः पचतीत्यादेरपि साधुत्वापत्तेः । न च धावनविशिष्टमृगस्य वाक्यार्थत्वेन नामार्थत्वाभावान्न दोष इति वाच्यम् । तथा सति मृगपदोत्तरं प्रथमापि न स्यात् । तस्या अपि प्रातिपदिकाश्रयत्वात् । किंच मृगकर्तृकोत्कटधावनस्य दृशिक्रियाया कर्मत्वेन विवक्षास्थल एव प्रयुक्तस्य पश्य मृगो धावतीत्यस्यैकवाक्यत्वं फणिसंमतं तच्चानुपपन्नमेव । फणिसंमतिस्तु हेलाराजेन स्पष्टीकृता । तथा हि सुबन्तं हि यथानेकं सुबन्तस्य विशेषणम् । तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम् ।। इत्युक्त्वा तेन धावनक्रियाया एव (कर्मत्व)विवक्षायां न प्रतीकार इत्याशयः । अन्यथा धावन्तं मृगं पश्यत्येव ब्रूयात् । किं च त्रयः काला इत्यत्र ज्ञायन्ते इति क्रियान्वयसंभवात् क्रियाविनिर्मुक्तवाक्योदाहरणस्यासंगत्यापत्तेः । किं च शृणु गर्जति मेघः, नटो गायति शृणु, घटोऽनश्यत् पश्येत्यादावप्यगतेश्च । एतेन प्रथमार्थ एव कर्मत्वमित्यपास्तम ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy