SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ वाक्यवादः। श्रीगणेशाय नमः । अथ किमिदं वाक्यं नाम। 'एकतिङ् वाक्यम्' इति भाष्यात् 'एकतिङ. न्तार्थमुख्यविशेष्यकबोधजनकपदसमूहो वाक्यम् ' इति वैयाकरणाः । तेन पचति भवतीत्यादौ पश्य मृगो धावतीत्यादौ च क्रियापदस्यानेकत्वेऽपि न एकवाक्यताव्याघातः । 'नहि क्रियाविनिर्मुक्तवाक्यमस्ति' इतिभाष्यात् 'अस्तिर्भवन्तिपरःप्रथमपुरुषः' इत्यादिकात्यायनस्मरणाञ्च सर्वत्र समुचितः क्रियापदाध्याहारः । न चास्तु क्रियापदाध्याहारस्तथाऽपि बोधविशेष्यकत्वं प्रथमान्तार्थस्यैवेति वोच्यम् । पश्य मृगो धावतीत्यादावगते: प्रथमान्तार्थयोर्विशेष्यत्वे वाक्य भेदप्रसङ्गात् । मृगस्य दर्शनक्रियायां कर्मतयान्वये मृगपदोत्तरं द्वितीयापत्तेः । द्वितीयायां च सत्यां “लटः शतृशानचावप्रथमासमानाधिकरणे" इत्यनुशासनाल्लटः शत्रादेशे धावन्तं मृगं पश्येत्येव स्यात्तथा च पश्य मृगो धावतीति वाक्यस्योच्छेदः स्यात् । तमिति अध्याहारे. वाक्यभेदो गौरवं च। न च वाक्यभेदे क्षतिविरह इति वाच्यम् । तथा सति 'तिकतिङः' इति सूत्रेऽतिङ इत्यस्य व्यावयाभावेन वैयापत्तेः । निघातस्वरस्य च एकवाक्यताधीनत्वात् । एकवाक्यत्वाभावे तदनुपपत्तेः । न च हरेर्दशावतारा इत्यत्र का क्रिया अध्याहार्या । भवन्तीत्यवेहि । परं तु यत्रायोग्यता न तत्र लडर्थवर्तमानत्वान्वयः, अविवक्षितत्वात् । वर्तमानसामीप्ये वा लट् । सामीप्यं च भूतभविष्यदूपमत एव जयन्ति कृष्णस्य दशावतारा इति मुकुटः। वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः । इत्यादौ न लडर्थविवक्षेति मिश्राः । वर्तमानार्थकलट्प्रत्ययान्तत्वेनेत्यस्यालोकस्य तत्सामीप्यार्थकलट्प्रत्ययान्तत्वेनेति कण्टकोद्धारे मधुसूदनठक्कुराः । अत्र नैयायिकाः-निःक्रियस्यापि वाक्यस्य सत्त्वात्रिविधं वाक्यम् । तथा
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy