SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्रातिपदिकसंज्ञावादः । विशेषणादियोगः । वाक्यस्य स्फोटरूपतया नीलघटमानय, घटमानयेत्यादेर्भेदएव वेत्यदोषः । न चैवं बहुगोमत्केत्यादौ विभक्तेः पुरस्तात्समास इति पक्षे विशिष्टस्य सुबन्तत्वाभावेन सुबन्तात्तद्धित इति सिद्धान्तविरोधः । तेषामतिरिक्तार्थाभावेन परिपूर्ण पदमिति न्यायाविषयतया तत्सिद्धान्तस्य समासान्तेऽभावादित्याहुः । ११ वस्तुतः समासार्थक कल्प्यमानालौकिकप्रक्रियावाक्यस्य प्रातिपदिकत्वादेव तद्धितः सुलभः । प्रशंसायां रूपबितिसूत्रस्थभाष्यप्रामाण्याद्यमपि पक्षः संमत इति प्रन्थान्तरे प्रतिपादितत्वात् । यदि विशिष्टस्य प्रातिपदिकत्वात्सुपि सुबन्ता इति तद्धितः संभवतीत्युच्यते तर्ह्यस्तु सोऽपि न किंचिदनुपपन्नम् । अनर्थकस्य प्रातिपदिकत्वं त्वधिपरी अनर्थकाविति ज्ञापकादिति भाष्यकृतः । कृत्तद्धितसमासाश्चेत्यनुक्तसमुच्चयार्थेन चेन संग्राह्यमित्यपि कश्चित् । तत्संज्ञाफलं स्वर इति सर्वे शिवम् । आकरोक्तां दिशं गत्वा मया कनकमीप्सता । अलम्भि हीरमुक्ताली वाग्देवी वदनाम्बुजात् ॥ १ ॥ मणिप्रन्थनचातुर्य पन्नगेन्द्रात्प्रभोर्मया । कालेन भूयसा लब्धमर्थवत्सूत्रमेव तु ॥ २॥ इति श्रीगोडबोलोपाख्यनारायणकृतः प्रातिपदिकसंज्ञावादः समाप्तिमगमत् ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy