________________
१०
गोडबोलेकृतः
पौनापुनिकः, इति समुदायात् ध्यञ्ठबोरनुपपत्तिप्रसङ्गात् । तत्र हि अन्तरङ्गत्वात्सुब्लुकि द्वित्वं ततश्च समुदायस्य सुबन्तत्वाभावाप्रातिपदिकत्वाभावाच्च तदुत्पत्तिः । प्रातिपदिकत्वं तु समासकृतनियमान्नेति द्विरुक्तप्रक्रियास्थग्रन्थासंगतिप्रसङ्गः । स्थाने द्विवचनेपक्षेऽपि दोषात् ।।
न च समुदायादेकविभक्तौ परत इति पक्षस्योक्तिसंभवायायं नियमः सुबन्तानामित्यादिनियमेनाऽपि निर्वाहादित्यलमाकरोक्तनियमविरुद्धनियमवचनचातुरीचणत्वेनेत्युपरम्यते ।
यत्तु समासस्य लुप्तविभक्तयन्तत्वात्कृदादिसूत्रे समासग्रहणे तत्सूत्रस्यार्थवदादिप्रपञ्चत्वं मिश्राद्युक्तं विरुध्येतेत्याशङ्कय तत्र प्रत्यासत्त्या प्रत्ययपदस्य कृत्तद्धितान्तसमासेतरप्रत्ययान्तभिन्नपरत्वमित्युक्तं तच्चिन्त्यम् । समासस्याप्रत्ययान्ततया विध्यर्थत्वायोगात् ।
यदपि कृत्तद्धितेति व्यर्थम् । ते देवानित्यादिप्रकृतिप्रत्ययसमुदायवारणायार्थवदादिसूत्रेऽप्रत्ययपदस्य प्रत्ययतदन्तान्यपरत्वेऽपि विभक्तिविभत्तयन्तोभयभिन्नपरत्वाङ्गीकारात् । समासस्य तु स्वघटकपदवृत्त्यार्थबोधकत्वरूपार्थवत्त्वादेव निर्वाह इति तदपि व्यर्थमित्यूचुः । तदपि चिन्त्यम् । प्राग्दिशीयाधिकारपठितविभक्तिसंज्ञकप्रत्ययान्तकानां संज्ञानापत्तेः । तेषु च त्यदाद्यत्वाद्यनापत्तेश्च समासग्रहणस्य नियमार्थत्वान्न वैयर्थ्यमिति न किंचिदेतत् ।
खपुष्पशशशृङ्गादेरपि बुद्धिपरिकल्पितसंबन्ध आरोपितखादिसंबन्धवत्पुष्पादौ च शक्तिरस्त्येवेति न तदर्थ समासग्रहः । न च बाधबुद्धेः प्रतिबन्धकत्वान्न शाब्दबुद्धेरुदयः ।
यस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया _प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्तयः । गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरात
मूकानां प्रकरण कूर्मरमणीदुग्धोदधे रोधसि ।। इत्यादेस्तदुदयेन तस्याप्रतिबन्धकत्वात् । उक्तं च खण्डनकारैः___ " अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि" इति ।
नन्वेवमप्यसमर्थसमासार्थतत्स्यादितिचेत्,धर्मिग्राहकमानादेव तत्सिद्धिरित्यवेहि। न च त्वन्मते वाक्यस्य शक्तत्वेन घटमानयेत्यादौ नीलादिविशेषणयोग इति भ्रमितव्यम् । विशेषणविशेष्यभावांशे तच्छक्तावपि तद्धटकपदानां स्वस्वार्थशक्तिक्षत्यभावात् । समासस्य त्वनेवंविधत्वान्न तदर्थैकदेशे