________________
प्रातिपदिकसंज्ञावादः ।
भेदसंसर्गद्वारकार्थवत्त्वयुक्तसुबन्तासुबन्तानामश्वक्रीतीत्यादौ गतिकारकेत्यादिवचनात्समासदर्शनात्सुबन्तानामित्युपलक्षणमिति कैयटः। सजातीयत्वाभावेऽप्यर्थवत्समुदायानां समासेत्यत्रार्थवत्पदस्य स्वातन्त्र्येण प्रयोगाहर्थिवदित्यर्थः । गवित्ययमित्यादावनुकरणस्यानितिपरस्यापि प्रयोगसत्त्वेन तत्त्वमस्त्येव । प्रकृतिप्रत्ययसमुदायस्य तु न व्यावृत्तिः । प्रत्ययस्य स्वातन्त्र्येण प्रयोगार्हार्थवत्त्वाभावात् ।। _ सरूपसूत्रे भाष्ये सुबन्तानामित्यनेनेदमेवोपलक्ष्यत इति बोध्यमित्यपि केचित् । न चैवं सुप्तिङ्समुदायस्य प्रसङ्गः । जहि कर्मणा बहुलमाभीक्ष्ण्ये इत्यनेन नियमात् । न चैवमपि तिङ्समुदायस्य प्रसङ्गः, आख्यातमाख्यातेनति नियमेन निर्वाहात् । ___ यत्तु यत्र संघाते पूर्वोभागः पदमुत्तरस्तु प्रत्ययो नेत्याद्याकारको नियमः, जन्मवानित्यादिवारणायोत्तरेति, राज इयानित्यादौ तु पूर्वभागप्रकृतिकप्रत्ययाभावविवक्षणाददोष इत्याहुः । तच्चिन्त्यम् । गवित्ययमाहेत्यादौ दोषस्य स्फुटतरत्वात् । वृषण्वसुरित्यादिसमासे पूर्वभागस्य भत्वेन तत्साजात्याभावेन पूर्वो भागः पदमित्यर्थलाभासंभवात् । ___ यदपि प्रकृतिप्रत्ययभावानापन्नसंघातविषयको नियम इत्युक्तं, तदपि चिन्त्यम्। एकैकस्मै देहीत्यादौ द्विरुक्तकशब्दस्यैकं बहुव्रीहिवदिति बहुव्रीहिवद्भावेऽपि प्रातिपदिकसंज्ञानिवृत्तिप्रसङ्गात् । अतिदेशस्य स्वाश्रयाविरुद्धकार्यप्रतिपादकत्वमिति क्षियोदीर्घादिति सूत्रे भाष्येऽभिधानात् । - न च बहुव्रीहौ दृष्टस्य प्रातिपदिकत्वस्यानेनैव विधिः । एवमपि नियमवारणात् । न चासावर्थवत्सूत्रस्यैव नियमः । जन्मवानित्यादौ तद्धितान्तत्वप्रयुक्तप्रातिपदिकत्वानिवृत्तये यत्र संघातेत्यादिनियमशरीरेऽधिकप्रक्षेपस्य वैयर्थ्यप्रसङ्गात् । नाप्यतिदेशसामर्थ्यम् । स्वरपुंव(द)तिदेशेन सार्थक्यात् । न चापि पक्षान्तरे प्रातिपदिकत्वं सुतरां नियमप्रसङ्गात् । तस्मान्नायं नियमो युक्तः ।
किंचास्मिन्सति समुदायप्रातिपदिकत्वाभावात्सुबनापत्तिः । स्थानेद्विर्वचनपक्षेऽप्याश्रीयमाणे स्थानिवत्त्वेन प्रातिपदिकत्वं दुर्वचम् । स्थानिनः सुबन्तत्वेन समुदायस्यापि सुबन्तत्वात् ।।
किंचैवं प्रातिपदिकात्तद्धिता इति पक्षे पौनःपुनिक इत्यादि(?)सिद्धिप्रसङ्गः। श्रूयमाणप्रत्ययान्तस्यैव प्रातिपदिकत्वनिषेधेऽपि प्रकृतनियमेन तद्वारणात् । अपि चैवम्(?)। वस्तुतस्तु द्विःप्रयोगपक्षो दुर्बलः। पौनःपुन्यं,