________________
गोडबोलेकृतः
पदिकार्थयोरभेदान्वय इत्यादीनां व्युत्पत्तिकदम्बाना भिन्नोपस्थितिविषयत्वात् । एकार्थीभावस्य च प्रक्रियादशायां पृथगर्थत्वेन प्रथमगृहीतानां पदानां विशिष्टैकार्थोपस्थितिजनकत्वरूपत्वादशेषः । विवेचितं चैतद्विस्तरेण ग्रन्थान्तरेषु ।
व्यपेक्षावादिमते हि नित्यं समासेऽनुत्तरपदस्थस्य' इति सूत्रगतभाष्यमसंगतं स्यात् । तत्र हि समासग्रहात्पूर्वसूत्रे व्यपेक्षालक्षणे सामर्थ्ये गृहीते वाक्ये एव षत्वविकल्पो न समासे नित्यग्रहात्तु न विकल्पानुवृत्तिः । व्युत्पत्तिपक्षे च इदम् । _ अव्युत्पत्तिपक्षे विदुदुपधस्येति नित्ये सिद्धेऽनुत्तरपदस्थस्येति षत्वप्रतिषेधमात्रार्थम्। __ वस्तुतो व्युत्पत्तिपक्ष एव ससंश (?) आदरणाय सर्पिषा यजुषेत्यादिसिद्धय इति तत्रोक्तम् । व्यपेक्षापक्षे त्वाश्रीयमाणे 'इसुसोः सामर्थ्य' इत्यनेन विकल्पे प्राप्ते नित्यार्थमिदमित्यर्थः स्यात् । तच्च भाष्यकृतामनभिप्रेतमेव ।
किं च परमसर्पिः कुण्डिकेत्यादौ विकल्पप्रसङ्गः स्यात् । तथा चानुत्तरपदस्येति किं परमसर्पिःकुण्डिकेत्युदाहृत्येदानीमनेन मुक्ते पूर्वेण षत्वं विभाषा कस्मान्न भवति इसुसोः सामर्थ्य इतीत्याशङ्कय
नानापदार्थयोर्वर्तमानयोः ख्यायते यदा योगः । .
तस्मिन् षत्वं कार्य तद्युक्तं तच्चमेते ह(?)॥ इतिवार्तिकव्याख्यायां व्यपेक्षासामर्थ्य पूर्वयोगः न चात्र व्यपेक्षासाममिति समाधाय किं पुनः कारणं पूर्वस्मिन् योगे व्यपेक्षासामर्थ्यमाश्रीयते न पुनरेकार्थीभावो यथान्यत्रेति पुनराशङ्कथैकार्थे सति वाक्ये षत्वं न स्यात् सर्पिष्करोति सर्पिःकरोतीत्युक्तं तदसंगतं स्यात् । अपि चानेन ग्रन्थेन कण्ठरवेणैव भाष्यकृद्भिरुक्तम् 'समासे व्यपेक्षा नास्तीति' तत्कथं महर्षिवचनमनादृत्य समासे व्यपेक्षामङ्गीकुर्वते तार्किका इति सहृदयैराकलनीयम् । ___ नन्वस्तु समासादावेकार्थीभावः, तथापि वाक्यस्य प्रातिपदिकत्वं कुतो नति चेत् । अर्थवत्समुदायानां समासग्रहणं नियमामिति भाष्यात् । अथैवतां सुबन्तानां समुदायोऽत्र विवक्षितः । तुल्यजातीयस्य नियमः कश्चित्तुल्यजातीयः यथाजातीयकानां समासः कथं जातीयकानां समासः सुबन्तानामित्यग्रिमभाष्यस्वरसात् । अन्यथा बहुरवा(?)दावतिप्रसङ्गात् । समासस्य सुबन्तकृदन्तघटितत्वेऽपि प्राचुर्यादेवमुक्तम् ।