SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सात समश्नसः । प्रातिपदिकसंज्ञावादः। त्यनेकपदप्रसङ्ग इति पूर्वपक्षवार्तिकोदाहरणत्वेनोपन्यस्तं दशदाडिमादि परिहृत्यैवमपि वाक्यप्रतिषेधोऽर्थवत्त्वादित्युत्तरवार्तिकव्याख्यावसरे देवदत्त गामभ्याजशुक्लां देवदत्त गामभ्याज कृष्णामित्युदाहृत्यार्थवद्धयेतद्वाक्यमित्युक्तेः । तुल्यन्यायेन कृत्तद्धितान्तयोरप्येकार्थीभावाभावप्रयुक्तानर्थक्ययोः प्रातिपदिकत्वाप्राप्तेः प्रत्ययान्तपर्युदासखण्डनपरकृत्तद्धितनियमप्रातिपदिकभाष्यग्रन्थासंगत्यापत्तेश्च । अतिङ् प्रातिपदिकमिति न्यासेन समासग्रहणस्य नियमार्थत्वं तु तन्न्याय(स?)स्य प्रतिवर्ण प्रसक्तत्वादकिंचित्करम् । इत्थं चान्यथानुपपन्नप्रातिपदिकत्वमेव समासादावर्थवत्त्वानुमापकमित्यर्थवदित्यादिन्यास एव समञ्जसः । न च स्वघटकपदवृत्त्यार्थबोधकत्वमेवार्थवत्त्वं, नतु वृत्त्यार्थबोधकत्वम् । अनर्थकदशदाडिमादिसमुदायेऽतिप्रसङ्गात् । न चेष्टापत्तिः । अनर्थकत्वेन वारणस्याकराभिहितस्यासंगतिप्रसङ्गात् । समासादाक्नेकार्थीभावे हि तन्निठप्रकारतानिरूपितविशेष्यतापर्याप्त्यधिकरणत्वमूलक-‘पदार्थः पदार्थेनान्वेति नतु पदार्थैकदेशेन' इति व्युत्पत्तेः प्राप्तोदकादौ भग्नतया राजपुरुषादौ राज्ञि सुन्दरत्वादिविशेषणापत्तिप्रसङ्गः । तद्वारणार्थ च वृत्तस्य विशेषणयोगो नेति वचनारम्भे गौरवम् । राजपुरुषोऽश्वश्चेत्यादिवारणाय वृत्तौ सजातीयविशेष्यान्तरयोगो नेत्यपि वचनं कार्य स्यात् । साजात्यं चेहैकपदबोध्यत्वेन । तेन राजगोपुरुषावित्यादौ विशेष्यान्तराव्यवच्छेदः । ___ एवं राजपुरुषो भार्यायाश्चेत्येतद्वारणाय सजातीयविशेषणान्तरयोगो नेत्यपि वचनं कार्य स्यात् । राजदेवदत्तपुरुष इत्यादेरत्राब्यवच्छेदः । द्वन्द्वे चशब्दप्रयोगवारणायापि वचनमारभ्यं स्यात् । एवं निष्कौशाम्ब्यादौ क्रान्तादिप्रयोगवारणायापि महाविभाषाधिकारश्चारम्भणीयः स्यात् । न चैकार्थीभाववादिमते निषादस्थपत्यधिकरणविरोधः । पूर्वपक्षाभावने सिद्धान्तस्य निर्दलत्वात् । न च शक्तितज्ज्ञानहेतुतयोरिव लक्षणातज्ज्ञानहेतुतयोरपि कृप्तत्वात् षष्ठीसमास एव युक्तः । तथा सति निषादानां स्थपतेर्लब्धविद्यस्य त्रैवर्णिकस्य याजनसंभवान्नापूर्वविद्याप्रयुक्तिकल्पनं न वा स्त्रीशूद्रौ नाधीयातामिति निषेधसंकोच इति वाच्यम् । एवमपि सिद्धान्तभङ्गापत्तेरिति वाच्यम् । वेदे कर्मधारयसंभवे नान्यसमास इति नियमाङ्गीकारात्। न चातिरेकः तुल्यत्वात् । न च तृप्तत्वान्नातिरिच्यतेऽस्मत्कृतनियमः । वचनान्तरातिरेकवदशेषत्वात् , सिद्धान्ते तु समानाधिकरणप्राति
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy